________________
श्री
प्रवज्या० श्रीप्रधुनीयवृत्तौ
॥१९२॥
आयातः स्थूलभद्रोऽभूद् गृहे संघयुतस्तव । १३६ ।। स प्राह भणितं किञ्चिन्न किञ्चिदिति साऽवदत् । स्तम्भस्याभिमुखं हस्तं, | दर्शयन्नित्ययं जगौ ॥ १३७ ॥ इदमीदृक् च तत्तादृक् पश्य कीदृगजायत । सुधीः स दध्यौ सद्बुद्धिचेष्टितं तस्य चेष्टितम् ॥ १३८ ॥ इदमीदृग् निधिप्रायं यत्तादृगू भ्रमणं व्यधात् । पश्य कीदृगभून्मन्ये, धनं स्तम्भेऽस्ति किंचन ॥ १३९ ॥ ध्यात्वेति स खनन्नाप, स्तम्भाधो रत्नसम्भृतम् निधिं सत्पात्रदानाद्यैः, सफलं विदधे च तम् ॥ १४० ॥ इत्थं न स्थूलभद्रेण, सोढो ज्ञानपरीपहः । तथा तथाऽपरैर्नैव, विधेयं शुद्धसूरिभिः || १४१ || अहो मोहस्य माहात्म्यं श्रुतकेवलिनोऽपि यत् । दृष्टान्तो व्यतिरेकेणाजनि ज्ञानपरीपहे ॥ १४२ ॥ अन्वयेनैष दृष्टान्तः, सोढव्ये स्त्रीपरीषहे । व्यतिरेकेण दृष्टान्तः, पुनर्ज्ञानपरीषहे ॥ १४२ ॥
अथ सम्यक्त्वपरीषहः, वत्सेष्वतुच्छशक्त्याढ्यः, आर्याषाढो गणाधिपः । बहुश्रुतोऽस्ति भव्यानामुद्यतः प्रतिबोधने ॥ १ ॥ यो यः कालं करोत्यत्र, तं तं निर्यापयत्ययम् । वक्ति चैनं सुपर्वत्वे, दर्शनं देयमेव मे ॥ २ ॥ इत्थं निर्यापिताः प्राज्या, दिवः कश्चित्तु नागमत् । तैरन्यदादरादिष्टः, स्वशिष्योऽप्येवमर्थितः || ३ || सूरिस्तत्राप्यनायाते, दध्यौ क्वास्ति भवः परः १ । यत्कोऽपि नागतस्तस्माद्भोगेभ्यो वञ्चितो मुधा || ४ || इति मिथ्यात्वमापन्नो लिंगमात्रतोऽभवत् । त्यक्त्वा गच्छं व्रतं त्यक्तुमनाः स प्रचचाल च ॥ ५ ॥ शिष्यदेवोऽवधेर्मत्वा, तान् बोधयितुमागतः । चक्रे संवसथे दिव्यनटप्रेक्षा विकुर्वणम् ॥ ६ ॥ तत्प्रेक्षमाणः पण्मासीं, गुरुस्तृष्णां क्षुधं श्रमम् | देवानुभावान्नाज्ञासीदथ तां संजहार सः ॥ ७ ॥ अटव्यां गच्छतोऽथास्य, परीक्षार्थं सुरो व्यधात् । षण्णां | जीवनिकायानां नाम्ना बालानलंकृतान् ||८|| तेष्वाद्यं पृथ्वीकायसंज्ञं प्रेक्ष्य व्यचिन्तयत् । गृहीत्वाऽऽभरणान्यस्य, भुंजे भोगान् | यथारुचि ॥ ९ ॥ स याचितोऽप्यलङ्कारमदद द्विधृतो गले । सोऽवदच्छरणायातमटव्यां पाहि मां प्रभो ! ॥ १० ॥ विधुरं योऽवल
दर्श
आर्याषाढः
॥१९२॥