________________
श्री
प्रव्रज्या० श्रीप्रद्युश्रीयवृत्ती
।। १८८ ।।
ततो नत्वाऽथ सर्वेऽपि, ययुः स्थानं यथोचितम् । कोशाभ्युत्थाय नाथस्त्वं, किं करोमीत्युवाच च ॥ ६६ ॥ स्थूलभद्रोऽवदद् धर्म्मलाभस्तेऽस्तु ममायताम् । चित्रशालां चतुर्मासीं निवासायापयच्च सा ॥ ६७ ॥ तत्रास्थादेष कोशा तु, दध्यौ भग्नो व्रतादयम् । समेतो मामिति ध्यात्वा, परसैस्तमभोजयत् ॥ ६८ ॥ ततः सा स्फारशृङ्गारसारा सारावभूषणा । स्थिरा स्थिराशयं तं तु, धर्मे ( दृष्ट्वा ) धर्मेच्छुरेव सा ।। ६९ ।। ननाम काममुत्सृज्य, भाबपावनमानसा । निर्नष्टकामनाकोटीप्रवेशा प्राप्तपोतिका ॥ ७० ॥ सा नताङ्गी ततो भक्त्या, रराजास्य मुनेः पुरः । पतिता कुण्ठतां प्राप्य, स्मरात्राऽऽलिरिवाबनौ ॥ ७१ ॥ स्थूलभद्रान्न मन्येऽन्यं, वेश्यावशमिहापरम् । गुरोर्धर्ममपि प्राप्यानीयास्यै यः समार्पयत् ॥ ७२ ॥ कामो विषयपञ्चास्यः कटाक्षो दृग्विषः फणी । कूपः स्त्रीसन्निधिस्तेन, तत्रयं तत्र यन्त्रितम् ॥ ७३ ॥ श्राविका सा न शिश्राय, नृपादिष्टात् परं नरम् । बभूव च विवेकाश्वमन्दुरा सुन्दरा क्रमात् ॥ ७४ ॥ निर्व्यूढाभिग्रहाचागुस्ते गुरून् यतयस्त्रयः । प्रोक्तास्तैः स्वागतं वोऽस्ति, सदा दुष्करकारकाः ! ॥ ७५ ॥ आयान्तं स्थूलभद्रं त्वभ्युत्थाय गुरुरालपत् । सात्त्विक ! स्वागतं ते दुष्कर दुष्करकारक ! || ७६ ।। सापत्रपात्रयोऽप्येते, मुनयोऽथ मिथोऽवदन् । आमंत्रणं गुरोरत्र, मन्त्रिपुत्रत्वकारणम् ॥ ७७ ॥ यद्येवं षड्रसाहारः, कृतदुष्कर दुष्करः । प्रतिपत्स्यामहे वर्षांतरे तद्वयमी - |दृशम् ॥ ७८ ॥ अष्टमासीमतीयुस्तेऽथ गुरोः पुरतोऽग्रहीत् । प्रावृषि स्थूभद्राभिग्रहं सिंहगुहामुनिः ॥ ७९ ॥ तत्कार्याक्षममाचार्या, विचार्याथ तमभ्यधुः । अभिग्रहग्रहोऽयं ते, प्राग्वृत्तस्यापि निग्रहः ॥ ८० ॥ इत्थं गुरुनिषिद्धोऽपि तत्रागाद् वेश्यया पुनः । एष श्री - स्थूलभद्रेण, स्पर्धावानित्यलक्ष्यत ॥८१॥ कोशा तां षड्रसाहौरर्भोजयित्वा स्वयं पुनः । पर्युपास्ते स्म वक्रेन्दुल्लासितस्मेरया गिरा ॥ ८२ ॥ स्थूलभद्रं स्मरोsप्राप्य, जघानैतं तपस्विनम् । नरः करभमप्राप्य, दामयेद्रासभं यतः ॥ ८३ ॥ स्मरार्थमर्थयन्तं तं सोचे
ज्ञाने स्थूलभद्रः
॥ १८८ ॥