________________
श्री प्रव्रज्या०
श्री प्रद्युनीयवृत्ती
॥ १८७॥
वोचत । देव ! किं क्रियते सर्वमिदं वररुचिव्यधात् ॥ ४७ ॥ एतेन नाशितस्तात !, स्थूलभद्रः प्रवासितः । तद्वैरपारं गच्छामि, देव ! चेत् त्वं प्रसीदसि ॥ ४८ ॥ कथं त्विति तया प्रोक्ते, श्रीयकः प्राह स द्विजः । त्वज्जामिकामुको मद्यं, पाय्यते यदि तद्वरम् ॥ ४९ ॥ तयैतत् प्रतिपन्नं च, कारितं च जवादपि । नित्यं पिबत्ययं मद्यं, ज्ञापितं चेति मंत्रिणः ।। ५० ।। शकडालात्यये विप्रः प्राविशद्वाजसंसदि । स कवित्वगुणान्नित्यं, पूज्यते च सभाजनैः ॥ ५१ ॥ स्मरन्नृपोऽन्यदा मंत्रिगुणानां श्रीयकं रहः । जगाद शकडालं | न श्रीमाल (ला) विनेति नु ॥ ५२ ॥ कलितापि सभा सद्भिः सभा मे विगतप्रभा । रहिता शकडालेन, शशिनेव निशीथिनी ॥ ५३ ॥ नृपः साश्रोऽवदन्नित्थं व्यज्ञपि श्रीयकेन सः । स्वामिन्! वररुचिश्चक्रे, मद्यपस्तद्धि तादृशम् ॥ ५४ ॥ राज्ञा प्रोक्तं पिवत्येष, किं मद्यं ? श्रीकोऽवदत् । प्रग्रे देवपादानामदः प्रकटयिष्यति ॥ ५५ ॥ प्रभातेऽधिसभं मंत्रिगुप्तशिक्षितमालिकः । सर्वेषामन्जमेकैकमदाद्वररुचेः पुनः ॥ ५६ ॥ उन्माद्यन्मदनफलक्षोदव्याप्तोदरं करे । सर्वेऽब्जं स्वं समाजघुः प्रशशंसुश्च सौरभम् ॥ ५७ ॥ युग्मम् ॥ द्विजोऽपि हि निजांभोजगंधं तच्चूर्णगर्भितम् । उच्छ्वासेनाग्रहीद्रात्रिपीतं मद्यं ववाम च ॥ ५८ ॥ सभाया निर्गतो लोकधिक्कृतले हक्कितश्च सः । प्रायश्चित्ते पपौ तप्तं, त्रपु प्राप च पंचताम् ॥ ५९ ॥ श्रीयकः पितृवैरस्य पारगामी चिरादथ । | सच्चक्रे मंत्री मनीथप्रजार्थानर्थिवान्धवः ॥ ६० ॥ स्थूलभद्रस्तु संभूताचार्यक्रममुपासयन् । अधीतस्तत्र सूत्रार्थी, दुस्तपं तपते
ः ॥ ६१ ॥ वर्षावभिग्रहात्थं, जगृहुर्यतयस्त्रयः । जोषिता स्मवतुर्मासीं कायोत्सर्गजुषो वयम् ॥ ६२ ॥ एकः सिंहगुहाद्वारे, दृग्विषाहिबिलेऽपरः । तृतीयः कूपमण्डूकासने स्थास्याम इत्यलम् || ६३ ॥ तेषां विज्ञाय सामर्थ्यमनुज्ञां गुरवो ददुः । स्थूलभद्रोऽथ जग्रा |हाभिग्रहं दुर्ग्रहं परैः || ६४ || कोशावेश्याश्रये चित्रशालायां षड्रसाशितः । स्थाता वर्षाः क्षमं मत्वा त्वज्ञासीत्तत्र तं गुरुः ||६५ ||
ज्ञाने
स्थूलभद्रः
॥ १८७॥