SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या विधाने ॥ १५ ॥ वृत्तिकरणं गार्हस्थ्य संबंधश्च - श्रीमन्तः प्रद्युम्नसूरयः श्रीमत्या लक्ष्मीरूपाया लक्ष्म्याख्याया रमणीजनगणालंकारभूतायाः कुक्षिसरसि सरसिजायमानाः, श्रीमतां च बकुलदेवानां प्राग्वाटान्वयविभूषणानां कुलालंकरणस्य श्रीकुमारसिंहाभिधानस्य कुलस्योद्योतका इति प्रशस्तेरत्रत्यायाः ' प्राग्वाटान्वये 'ति ( २४५) काव्यादवसीयते, यद्यप्यत्र श्रीमतो धन्धस्य श्रीकुमारसिंहापत्यत्वमात्रं संसूत्रयंति परं श्रीधन्धव्यवहारी श्रीमतां सहजो बान्धव इति 'सहजेनार्थितो धन्धनाम्ने' ति प्रस्तावनाद्वितीयकाव्यात् स्पष्टतरमवसीयत एव ततश्च श्रीमतामपि त एव जनयितारः, श्रीसमरादित्यसंक्षेपे तु 'प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किममिधः पिता ॥ ५० ॥ कुमारसिंह इत्युक्ते, कुमारेणेति वचनात् स्पष्टमेव स्वजनकस्य कुमारसिंहेत्यभिधानमुक्तं, यद्यपि 'धर्मवीरत्वसकल० ' इत्यादिश्लोकोक्ते गूढचतुर्थ के 'धर्मबांधववीकल' इति बंधुनाम स्पष्टितं, परं श्रीवीकलस्य धर्मबांधवत्वेन श्रीधन्धस्य च सहजबान्धवताख्यानं संगतमेव, अनेन धर्मपत्न्यादयः शब्दा नाभिधातुमुचिता इति चेन्निर्णीयते नानुचितं स्यात् । ग्रन्थानां कर्तृत्वं शोधकत्वं च ' मत्या सतां संमतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसूरिः कविः' इति श्रीसमरादित्यसंक्षेपे अत्र च स्पष्टमुक्तत्वात् अपरसुकविकृतानां शोधकत्वं ज्ञायते वाङ्मयानां ततद्ग्रन्थकृद्भिरपि स्पष्टमेव स्वस्वग्रन्थानां श्री प्रद्युम्न सूरिभिः शोधनमनुमतं, तथा च श्रीबालचन्द्राचार्या उपदेशकन्दल्यां विवेकमंजरीवृत्तौ च श्रीदेवेन्द्रसूरयः उपमितिसारोद्धारे श्रीउदयप्रभसूरयः श्रीउपदेशमालाकर्णिकावृत्तौ श्रीमुनिदेवसूरयः श्रीशांन्तिनाथचरित्रे श्रीप्रभाचन्द्राः प्रभावकचरित्रे श्रीरत्नप्रभसूरयः कुवलयमालाकथा संक्षेपे श्रीधर्मकुमार सुधियः श्रीशालिभद्रचरित्रे श्रीविनय चंद्राचार्याः श्रीमल्लीनाथचरित्रे श्रीमानतुंगसूरयश्च श्रीमुनिसुव्रत चरित्रे स्पष्टतरं श्रीमतां प्रद्युम्नमूरीणामेव तत्तद्ग्रंथशोधकतामाचरव्युः प्रस्तावना ॥ १५ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy