SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अज्ञाने स्थूलभद्र प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥१८४॥ | यनत्रये । तत् प्राच्यमप्रतिक्रान्तं, कोर्णिमजीर्णवत् ।। १४ ।। तुर्यमध्ययनं तस्य, पठतोऽप्यनवस्थितेः। नापतत्पदमप्येकं, पुण्यहीनस्य वस्विव ॥ १५ ॥ आचामाम्लद्वये जाते, सूरयः प्रोचिरे च तम् । तुर्यमध्ययनं तेऽनुजानामोऽथ वयं वद ॥ १६ ॥ स प्राह कीदृशो योगोऽध्ययनस्यास्य दिश्यताम् । ते प्रोचुर्यावदायाति, नैव तावत्तपः परम् ॥ १७ ॥ सत्त्ववृत्तिः स इत्यूचेऽनुज्ञया पूर्यते मम । यावदायाति मे तावदाचामाम्लानि संतु मे ॥ १८॥ तत्तपः कुर्वतस्तस्य, द्वादशाब्दा गतास्ततः। ज्ञानावरणं तत् कर्म, तत्क्षणं क्षयमाप च ॥ १९॥ तुर्ये तस्यागतेऽध्याय, विकर्माणि च निर्गते । सत्यं वचोऽभवद्वैद्यस्यागमो रोगनिर्गमः ॥ २०॥ श्रुतं शेष सुखेनैव, तेनाधीतमतो बुधाः!। सहन्तां तद्वदज्ञानपरीपहमुपागतम् ॥ २१ ॥ अथ विपक्षे दृष्टान्तः-बभूव पाटलीपुत्रे, नन्दो नाम नराधिपः। मन्त्र्यस्य शकडालाख्यस्तस्य लक्ष्मीवती प्रिया ॥१॥ ४ स्थूलभद्रस्तयोराद्यः, सुतोऽन्यः श्रीयकाभिधः । तत्र वेश्याऽस्ति कोशेति , कोशः स्मरनरेशितुः॥२॥द्वादशाब्दी स्थूलभद्रस्तद् गृहेऽस्थात् सुखैकधीः। श्रीयकस्त्वंगरक्षत्वं, नन्दराजस्य निर्ममे ॥ ३ ॥ अमृद्वररुचिस्तत्र, वादी लाक्षणिकः कविः । सोष्टोत्तरशतेनास्तौन्नित्यं श्लोकैनवैर्नृपम् ॥ ४॥ मिथ्यागिति तं मंत्री, न प्राशंसद् द्विजं क्वचित् । प्राभृतैः सेवितुं मन्त्रिपत्नीमेष प्रचक्रमे ॥५॥ स तया दृष्टया पृष्टः, कार्यमाचष्ट शिष्टधीः । त्वत्पतिनृपतेरग्रे, कवितां मे प्रशंसतु ॥६॥ तयोक्तः सचिवोऽवोचन मिथ्यादृग्वचः स्तुवे। तयोक्तं साग्रहं मेते, कः स्त्रीवाक्ये पराङ्मुखः ॥७॥ अन्यदा पठतस्तस्य, मन्त्र्यूचे साधु भाषितम् । नृपस्ततोऽस्मै दीनारशतमष्टोत्तरं ददौ ॥८॥ नित्यदाने नृपं मंत्री, प्रोचे कोऽयमसद्धययः ? । नृपः प्राह स्तुतस्तेऽसौ, पुराऽस्माभिः कृतो नतु ॥९॥ मंत्री प्राह स्तुतं सूक्तं, मयाऽयं न कविः स्तुतः। एतस्य पठितं वाक्यं, यत्पठन्त्यपि बालिकाः॥१०॥ यक्षाऽथ AAAACKAGAR ॥१८४॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy