________________
प्रज्ञायां कालका
| ॥९॥ ध्यात्वेति शककूलेऽगात् , सामन्तास्तत्र शाखयः। नृपः शाखानुशाखिस्तु, कीर्त्यते देशभाषया ॥१०॥ शाखिमेकं च प्रव्रज्या मन्त्रायैस्तस्थुरावय॑ सूरयः। क्षुरिकाप्राभृतस्तत्रान्यदा दूतः समागमत् ॥ ११॥ शाखिः श्यामाननः पृष्टः, परिभिः प्राह नः श्रीप्रद्यु
| प्रभुः । क्रुद्धःप्रेषयते शस्त्री, तया छेद्यं निजं शिरः ॥ १२॥ कृपाणिकायामेतस्या, पण्णवत्यकवीक्षणात । मन्ये षण्णवतेः सामम्नीयवृत्ती मा
न्तानां क्रुद्धो धराधिपः॥ १३ ॥ सर्वेऽपि गुप्तमाह्वाय, सूरिभिस्तेऽथ मेलिताः। तरीभिः सिन्धुमुत्तीर्य, सुराष्ट्रायां समाययुः॥१४॥
वर्षाराचे तदायाते, गतेः प्रत्यूहकारिणि । विधाय षण्णवत्याऽशः, सुराष्ट्रं तेऽवतस्थिरे ॥ १५॥ गुर्वादिष्टैश्च शरदि, तैरूचे नास्ति ॥१८॥
| शम्बलम् । गुरु चूर्णेन सौवर्णमिष्टिकापाकमादधे ॥ १६ ॥ शम्बलाद् बलवन्तोऽपि, मालवं लातुमिच्छवः। चित्रं गुरुगिराऽऽसंस्ते, गुर्वाज्ञा हि बलीयसी ॥ १७॥ गईभिन्नः ससैन्योऽपि, समेतस्तैमहाबलैः। भग्नः प्रविश्य पुर्यस्थादेवां रुरुधिरे च ते ॥ १८ ॥ अथाष्टमीदिने दुर्गे, शून्ये पृष्टः शकैर्गुरुः । आचख्यौ गर्दभी विद्यामद्यायं साधयिष्यति ॥ १९ ॥ तद्रवश्रवणाच्छत्रुसैन्यं स्यान्मूञ्छितं यथा । गव्यतः परतः सर्व, शिबिरं तनिवेश्यताम् ॥ २० ॥ अष्टोत्तरं शतं शब्दवेधिनः सन्तु मेन्तिके । तथा कृतेऽथ तै: सूरिगदितैः शब्दवेधिभिः ॥ २१॥ तस्याः प्रसारितं वर्क, तूणीचक्रे क्षणादपि । हतप्रभावा नष्टाऽथ, विद्याऽवद्यात्मनस्तता ॥ २२ ।। युग्मम् ॥ सूर्याज्ञया ततः पुर्या, प्रविश्याऽऽनायितः शकः। बद्ध्वा पाशैस्ततो गर्दभिल्लो गुरुपदान्तिके ॥२३॥ स तैरूचे तवान्यायतरोः पुष्पमिदं ननु । फलं त्वन्यभवे भावि, घोरा नरकवेदनाः॥ २४ ॥ तद्धर्म प्रतिपयस्वाधुनाऽपि जिनमाषितम् । इत्युक्तेऽवागसौ द्वेधा, चक्रे निर्विषयः स तैः ॥ २५ ॥ मित्रं शाखि नरेन्द्रत्वे, सामन्तत्वे परानपि । सूरयः स्थापयामासुर्निजां जामि च संयमे ।। २६ ॥ अथ भृगुपुरे राजा, युवराजश्च तिष्ठतः । बलमित्रभानुमित्राभिधौ जामिसुतौ गुरोः ॥ २७ ॥ प्रधान
B535A4 NERIECCAR
55AGARCANE
॥१८१॥