SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रधु नीयवृत्ती ॥१८०॥ じゅう निर्दया मया । सूरयः प्राहुरधुना, किमोकस्यस्य वर्त्तते ? || ७ || स जगादाज्ञानसिंधुरोधसोऽस्य पुरोधसः । प्रासादोऽस्ति नवो भावी, तत्प्रवेश महोत्सवः ॥ ८ ॥ भोजनाय जनाधीशमयमामन्त्रयिष्यति । समग्रपरिवारेण सहितं पूजयिष्यति ॥ १ ॥ आचार्या जगदुस्तर्हि प्रासादे प्रविशन्नृपः । तर्हि त्वया धृतेः नत्वा, विधातव्योऽतिदूरतः ॥ १० ॥ प्रासादोऽयं पतत्युच्चैरितिवाच्यं नृपाग्रतः । तदाऽहं पातयिष्यामि, प्रासादं हृद्यविद्यया ॥ ११ ॥ तथा भूतेऽखिलेऽप्यर्थे श्रेष्ठिना भणितो नृपः । यन्मारयितुमारब्धा, यूयमेतेन पाप्मना ॥ ११ ॥ कुपितस्तस्य भूपालः, श्रावकस्य तमापयत् । तेनास्य चरणौ बद्ध्वा, चेन्द्रकीले प्रवेशितः ॥ १३ ॥ पश्चादयामयं कृत्वा, छित्वा चैनं दयामयः । पुरोहितमथो भूतदयः श्रेष्ठी व्यसर्जयत् ॥ १४ ॥ साधुना साधु एवैष, विषोढव्यः परीषहः । न तु श्रावकवत्कार्यमकार्यमिदमीदृशम् ।। १५ ।। अथ प्रज्ञापरीषहः, धरावासपुरेशस्य, वैरि सिंहस्य नन्दनौ । अभूतां सुरसुन्दर्या, कालकश्च सरस्वती ॥१॥ कालकोऽन्येबुरुद्याने, वाहकेलिंगतो गुरोः । गुणाकाराभिधाद् बुद्धः, प्रावाजीदनुजायुतः ॥ २ ॥ शतसङ्ख्या नरा नार्यस्तावनु प्राव्रजन्नथ । कालकः स्वपदे न्यासि, गुरुभिर्गुरुभिर्गुणैः ||३|| प्रवर्त्तिनीत्वे तज्जामिरवन्त्यामन्यदाऽगमन् । श्रीमन्तः कामिकाचार्याः, साधुसाध्वीसमन्विताः ॥ ४ ॥ गई भिल्लोऽन्यदाऽवन्तीपतिर्वीक्ष्य सरस्वतीम् । बलादन्तःपुरे न्यास्थत्, को विवेको हि कामिनाम् ||५|| तस्मिन् बोधवचः सूरेः, सङ्घस्य च वृथाऽभवत् । पारध बन्धुबटुवत्, क्षीणायुरपि जायुवत् ॥ ६ ॥ अथोन्मत्तकवेषेण, भ्रमन्निि ललाप सः । गर्दभिल्लो यदि नृपस्ततः स्यात् किमतः परम् १ || ७ || भिक्षेऽहं यदि शून्ये वा, वसामि किमतः परम् ? । मत्वेति बोधितोऽमात्यैर्नाबुध्यत नृपाधमः ॥ ८ ॥ श्रुत्वेति कुपितः सूरिः, सस्मारागमभाषितम् । सङ्घादिकार्ये यच्चक्रिसैन्यमप्यं तयेन्मुनिः प्रज्ञायां कालकः ॥१८०॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy