________________
सत्कारे
श्री
श्रेष्ठी
प्रव्रज्या० श्रीप्रद्य-
नीयवृत्ती
॥१७९॥
॥५॥ अचिन्तयच्च चित्तेऽसौ, मुनयोऽनुनयस्पृशः। सुन्दरं स्यान्मलं गात्रादुद्वोत्तारयन्ति चेत् ॥ ६॥ तच्चिन्तितमनालोच्य, लेख्यशेषो बभूव सः । त्रिदिवे त्रिदशीभूतः, प्रभूतः सुखभागभूत् ॥ ७॥ ततश्च्युतश्च कौशाम्ब्यामिभ्यपुत्रतयाऽभवत् । | निर्विण्णकामभोगोऽथ, धर्म श्रुत्वाऽऽददे व्रतम् ॥ ८॥ तत्र कर्मण्युदणे च, दुर्ग दुर्गन्धमाप सः । यत्र यत्र बजत्येष, तत्र निर्विकार तत्रोपहासिता॥९॥ भणितः साधुभिः सोऽथ, मा निगच्छ प्रतिश्रयात् । यतः शासनमालिन्यं, गोपनीयं प्रयत्नतः ॥१०॥
नित्यं दुर्गन्धकायोऽयं, कायोत्सर्ग व्यधात्ततः। अंगभोगेन तत्कर्ममर्मभंग समुद्यतः ॥ ११ ॥ कर्मण्युदीर्णे जीर्णेऽसौ, देवताMऽवनताहिकः। चक्रे देवतया दिव्यगन्धसम्बन्धबन्धुरः ॥ १२॥ सुगन्धिनिखिलद्रव्यगन्धन्यत्कारकारकः । काष्ठामुपागतः | कायो, देवस्तस्याध्यवासयत् ॥१३॥ सुगन्धत्वेऽपि दुर्गन्धरीत्या वाच्यं जने गतः । सुन्दरेऽसुन्दरे वापि, स्यात् सर्वत्रातिगर्हिता ||
॥ १४ ॥ कायोत्सर्गवतस्तस्य, पुनर्दैवतदर्शनात् । दुष्ठुसुष्ठुविहीनत्वाद्गन्धः स्वाभाविकोऽभवत् ॥ १५ ॥ नाधिसेहे यथा तेन, पुरा मलपरीषहः । साधुना नाधुना तद्वद्विधेयं विधिवेदिना ॥ १६ ॥
अथ सत्कारपुरस्कारपरीषहः-मथुरायां पुरा पुर्यामिन्द्रदत्तः पुरोहितः । स्वप्रासादगवाक्षस्थ, आयान्तं मुनिमीक्षते ॥१॥18 तस्मिन्नधः समेतेऽसौ, लम्बमानं पदं व्यधात् । अमुष्य मस्तके न्यस्तः, स्यादित्याकूतदुष्टधीः॥२॥ श्रेष्ठिना स तथा दृष्टः, श्रावकेण च केनचित। अमर्षणः स सागारः, संगरं विदधाविति ॥ ३ ॥ यदि तेन पदश्चक्रे, वक्रेण मनसा मुनौ । छेदनीयस्ततोऽ- ॥१७९॥ वश्यं, मया गतदयात्मना ॥ ४ ॥ मार्गयत्यन्वहं तस्य, छिद्रमुन्मुद्ररोषधीः । भृतः कृतात्मरक्षस्येवास्य तल्लभते न तु ॥५॥ | अन्यदा विशदाचार्यपदानत्वाऽऽख्यदेष तत् । तैरूचे सह्यते ह्येष, दुःसहोऽपि परीषहः ॥६॥ स प्राह विदधे सेय, प्रतिज्ञा
AAAE
CURRECRUARCREACTREAM