SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तृणस्पर्श भद्रः प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती ॥१७७॥ 5555555A कुमारस्य स्वरेणास्य, जायते महती रतिः॥८॥ हन्यमानोऽमुना क्रोष्टा, स क्रोशति यथा यथा । कुमारो मारयन्नेत, प्रहृष्यति तथा तथा ॥९॥ अन्यदा हन्यमानोऽयं, तुद्यमानोऽप्रघाततः। मृत्वाऽभूत् व्यन्तरः क्रोष्टाऽकामनिर्जरया तया ॥१०॥ अन्यदा स्थविराचार्ये, मथुरायामुपागते । द्विधापि त्यक्तमारः स, कुमारः प्राव्रजत् सुधीः ॥ ११॥ क्रमादेकत्ववीहारप्रतिमाप्रतिपन्नकः । मुद्गशैलपुरेऽगच्छत्तत्र यत्रास्ति सा स्वसा॥१२॥ अर्शोरोगश्च तस्याभूद्धालत्वादपि कृच्छ्रकृत् । तत्रायातस्तदा बाढं, पीडितः सहसा तु सः ॥ १३॥ विज्ञा विज्ञाय तज्जामिरझेनदलमिश्रिताम् । भिक्षां दत्तवती सोऽधिकरणं तद्विचिन्तयन्॥१४॥ रोगपीडौषधींडोदासीन्यादशनादि सः । प्रत्याख्याति स्म तद्वेद, शृगालः व्यन्तरः स तु ॥ १५॥ स शिवामशिवायास्य, बद्धां बालकमीलिताम् । विधार्य कुर्वन् खीखीति, खादति स्म प्रसीदति ॥१६॥ हृतशत्रुपस्तस्यासन्नसज्ञातमाश्रितः। रक्षणायोपसर्गाणां, मुंचति स्म निजान भटान् ॥ १७ ॥ यावत्ते पुरुषास्तावदशिवाय शिवा न सा । दूरस्थेषु तु खीखीति, भाषमाणैव खादति ॥ १८ ॥ तेष्वास. बेष्वदृश्यः स्यादयं तु सहते मुनिः। अर्शोऽत्तिं च स वाढं तु, महात्मा सोढवान् मुनिः॥१९ ।। यथाऽयमर्शसां पीडां, सेहे नौषधमाददे । तथाऽन्यैरपि तद्विः , सह्यो रोगपरीषहः ॥ २० ॥ अथ तृणस्पर्शपरीषहः, श्रावस्तीनगरीनाथजितशत्रुनृपात्मजः। भद्रोल्लसन्मतिभद्रो, नाम्नास्ति क्रिययाऽपि च ॥१॥ सोऽन्यदा गुरुपादान्ते, दान्तेन मनसान्वितः । निविष्ट ईदृशं धर्मोपदेशं मसृणोऽशृणोत् ॥ २॥ मनुष्यं दुर्लभं मत्वा, संत्यज्य | विषयादिकम् । यत्नो विधीयतां धर्मे, यावन्नायाति वार्द्धकम् ॥ ३ ॥ भ्वादीनां सर्वधातूनामन्तेऽधीताश्चुरादयः। तदन्ते यदद|न्तास्तदहो वार्द्धकवैशसम् ॥ ४ ॥ बलिभिः कलितं भाति, स्थविरस्य कलेवरम् । यमराजागमे दत्तस्वस्तिकं जरसा रसात् ॥५॥ B535ARGASALAAESE ॥१७७॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy