SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अलामे नामतोऽभवत् । तच्चान्तरायकर्मास्य, सम्प्रत्युदयमागतम् ॥ ८॥ श्रुत्वेत्ययं न भोक्ष्येऽहं, परलब्ध्येत्यभिग्रहम् । गृहीत्वा प्रव्रज्या पालयामास, दुष्पालमपि सात्त्विकः ॥९॥ गदाभृदन्यदाऽपृच्छन्नाथं दुष्करकारकः । कः साधुषु विशेषण ?, ततः श्रीनेमिरब्रवीत् ढंढण: श्रीप्रद्यु ॥१०॥ दुष्करं कुर्वते सर्वे, विशेषाद् ढण्ढणो मुनिः। बहोः कालाद्यतोऽलाभपरीषहसहः स हि ॥ ११॥ प्रभु नत्वा विशन् नीयवृत्ती विष्णुः, पुरी ढण्ढणमैक्षत । गजादुत्तीर्य तस्मै च, साधवे माधवोऽनमत् ॥ १२॥ तद्वीक्ष्यैको वणिग् दध्यौ, धन्योऽयं विष्णुना नतः । तद्गृहे स गतस्तन, मोदकैः प्रतिलाभितः॥ १३ ॥ पप्रच्छ स प्रभुं नत्वा, क्षीणं तत् कर्म किं प्रभो! । प्रभुः प्राह ॥१७६॥ | हरेर्लब्धिरसौ लब्धिर्न ते मुने! ॥१४॥ प्रतिज्ञातार्थस्मरोऽसौ, मृग (संमृद्गन्) मृदु मोदकान् । परिष्ठापयितुं शुक्लध्यानी केवलमासदत् | ॥ १५॥ कृतपुण्यकपुत्रस्य, जलकान्तमणियथा । तथाऽस्य केवलं प्रादुरभून्मोदकमईने ॥ १६ ॥ प्रभुं प्रदक्षिणीकृत्य, ततो लढण्ढणकेवली । उपाविशत् सुरैः पूज्यमानः केवलिपर्षदि ॥ १७ ॥ अथ रोगपरीषहदृष्टान्तः, मथुरायां पुरा पुर्या. जितशत्रुरभून्नृपः । नाम्ना कालाऽप्यकालांगी, पण्यत्री तत्र तिष्ठति ॥१॥ रूपेणाप्रतिरूपा सा, वीक्ष्य विश्वंभराभुजा । अवरोधे परिक्षिप्ता, रत्नं यत्नं यदर्हति ॥२ ।। तस्यां च तनयो जज्ञे, जित-13 शत्रुमहीभुजः । कालावेश्यांगजत्वेन, स ख्यातः कालवेशिकः॥३॥ तस्य स्वसा स्वसामर्थ्यप्रभावहतशत्रुणा । मुद्गशैलपुरेशेन, | व्यूढाऽस्ति हतशत्रुणा ॥४॥ स चान्येयुः कुमारत्वे, श्रुत्वा गोमायुवासितम् । अपृच्छन्निजकान् पत्तीन्, यत् केषां श्रूयते स्वरः ? | ॥१७६॥ ॥ ५॥ तैरूचेऽमी वन्यजीवाः, फेरवा विहितारवाः। कुमारः प्राह बद्ध्वकं, ममानयत कौतुकी ॥ ६ ॥ ते गत्वा पातयित्वा च, | | पाशिके घोरवासिनम् । समानीयापियामासुराज्ञा मान्या यदीशितुः ॥ ७॥ स तं निहन्ति यष्टयाद्यः, खिखीति स च कूजति । SAKADASABा RECORECASAMACHAR
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy