SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री नीयवृत्ती ॥१७५॥ नगरेऽभिग्रहग्रहः ||३१|| एवंविधमहापात्रप्रदानफलभाजनम् । वनच्छिदपि धन्योऽयं, येनैष प्रतिलंभितः ॥३२॥ अहं तु निजदुष्कवशतः पशुतां गतः । सुरङ्गोऽपि कुरङ्गोऽस्मि, द्विधा दानाक्षमत्वतः ॥ ३३ ॥ तावुभावपि यद् दृष्टौ दृष्टिभ्यां तेन सम्मदात् । विशिष्टदृष्टिस्तज्जातिर्मन्ये जज्ञे तदाद्यपि ॥ ३४ ॥ इति सद्ध्यानसन्धान सावधानमनः स्पृशः । सन्ति त्रयोऽपि ते यावदत्र योगभृतो मिथः ।। ३५ ।। अर्द्धच्छिन्नस्तरुस्तावन्मरुता परिताडितः । तेषामुपरि सद्योऽपि, पपात पविपातवत् ॥ ३६ ॥ त्रयोऽपि पंचतां प्राप्य, त्रिदिवे पंचमे च ते । विमाने जज्ञिरे पद्मोत्तराः पद्मोत्तराभिधे || ३७ || प्रभावः कोऽपि भावस्य, स्पृश्यमानस्य पश्यतः । दातृसाधुसमानद्यां, मृगायापि ददौ गतिम् ||३८|| दातृग्राहक मेलापोऽगुण्यपुण्यो महाद्भुतः । यस्यावस्यायतामात्रादपि यत्र सुपर्वता ॥ ३९ ॥ कक्षे कक्षीकृतो दुष्प्रसहो याच्यापरीषहः । तथा नैव यथा श्रीमन्मन्दिरे मन्दिरेगतैः ॥ ४० ॥ यथा श्रीबलभद्रेण, बलभद्रेण साधुना । याच्ञापरीषदः पोढस्तथा सह्यः परैरपि ॥ ४१ ॥ अथालाभपरीषहोदाहरणम्, कृष्णस्य ढण्ढणापत्न्या, ढण्ढणो नामतः सुतः । बुद्धो देशनया श्रीमने मेः स व्रतमग्रहीत् ॥ १ ॥ द्वारिकांतः स च भ्राम्यन्, भिक्षांन प्राप कुत्रचित् । ये चान्येऽपि समं तेन, मुनयो यान्ति ते तथा ॥ २ ॥ श्रीनेमिमुनिभिः पृष्टः, प्रभो ! किं ढण्ढणो मुनिः । शिष्यो वः कृष्णसूनुश्च नगर्यामृद्धिभाज्यपि ॥ ३ ॥ भ्राम्यन्न लभते भिक्षामप्येष सकलं दिनम् । हंति लब्धि परेषां च तत्र किं नाथ ! कारणम् १ || ४ || प्रभुः प्राहाधिमगधं, ग्रामेऽभृद्धान्यपूरके । पुरे परासरो नाम, द्विजो राजनि मोगवान् ||५|| क्षेत्राणि क्ष्मापतेर्विद्या ग्रामीणैर्वापयन्नयम् । यामयुग्मे समेतेऽपि, भक्तेऽमुंचन खटकान् ॥ ६ ॥ क्षुद्रभ्रान्तैर्नरैः पंचशत्या तद्विगुणैर्वृपैः । क्षेत्र प्रत्येकमेकैकां सीतामयमकर्षयत् ॥ १ ॥ सोऽथ मृत्वा भवं भ्रान्त्वा ढण्ढणो अलाभे ढंढणः ॥१७५॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy