________________
श्री
प्रव्रज्या०
श्रीप्रधुश्रीयवृत्ती
॥ १७२ ॥
र्पितं समादाय, तममानममानयत् ॥ ४ ॥ नृपास्थानेऽन्यदा वाक्यं धर्म्मद्वेषि द्विजोऽवदत् । पालको बालकोऽभाषि, स्कन्दकेन मनीषिणा || ५ || त्रिकालज्ञे जिने देवे, तदुक्तपथगे गुरौ । जिनप्रणीते धर्मे च विसंवादः सतां कुतः ॥ ६ ॥ तत्त्वत्रयं प्रति - छाय, कृतः सद्यो निरुत्तरः । कुमारमेष वाग्मात्रात्तुष्टुवे गूढमत्सरः ।। ७ ।। स्कन्दकस्तु भवास्कन्दकरोऽसौ बालकालतः । श्रीसुव्रते समायाते, योधपञ्चशतीयुतः ॥ ८ ॥ जग्राह मोदतो दीक्षां सूरित्वे च प्रतिष्ठितः । कुम्भकारकटं गन्तुं पप्रच्छ प्रभुमन्यदा ॥९॥ युग्मम् ॥ प्रभुः प्राणान्तिकं प्राहोपसर्ग तत्र सोऽब्रवीत् । आराधकाः ? प्रभुः प्रोचे, त्वां विनाऽऽराधकाः परे ।। १० ।। ज्ञातेऽपि सपरीवारो, भवितव्यानुभावतः । जगाम स्कन्दकाचार्य:, कुम्भकारकटे पुरे ॥ ११॥ ज्ञात्वा स्कन्दकमायातं, पालकः स्वहितैर्नरैः । यतिवासोचितोद्यानेष्वायुधानि न्यधापयत् ||१२|| समायातं समाकर्ण्य, स्कन्दकं दण्डकिर्नृपः । प्रणन्तुमागमद् द्वेधा, पुरन्दरयशोयुतः || १३ || वन्दित्वा सादरं भक्त्या, तस्माच्चाकर्ण्य देशनाम् । स्तुवन् पुरान्तरायातो, विज्ञप्तस्तेन पाप्मना ॥ १४ ॥ नोपेक्ष्यः सेवकैर्भक्तः, स्वस्वामी व्यसने पतन् । सर्वनाशोचितस्यास्य तेन विज्ञप्यसे प्रभोः ॥ १५ ॥ स्कन्दकः सैष ते राज्यं, जिघृक्षुः समुपागतः । सहस्रयोधिभिः पञ्चशत्या पाषण्डिभिर्वृतः ॥ १६ ॥ स स्कन्दके समारूढमत्सरच्छन्नसत्यदृक् । प्रत्यायितुं नृपं तत्रोद्याने शस्त्राण्यदर्शयत् ॥१७॥ तद् दृष्ट्वा दण्डकी रोपाद्दण्डायैषां तमादिशत् । पालकः स्वेच्छया यन्त्रे, सोऽपिषत्तांस्तिलानिव ॥ १८ ॥ सर्वे निष्पील्य कर्माणि, पील्यमानेऽङ्गकेऽथ ते । अन्तकृत्केवली भावमाप्यागुः परमं पदम् ॥ १९ ॥ अथ बालमुनेः काले, पालकं स्कन्दकोऽब्रवीत् । मां पिष्ट्वा प्रथमं बालमेतं पिष्टि ततः परम् ।। २० ।। पालको बालकं साधुं तं यन्त्रे प्रथमं न्यधात् । स कृताराधनाध्यानसन्धानो निर्वृतिं ययौ ॥ २१ ॥ स्कन्दकः पीड्यमानस्तु, निदानं कृतवानिति । भूयासं देशभूपालपालक सोषहे
आक्रोशे - र्जुनः
॥ १७२ ॥