________________
प्रव्रज्या० श्रीप्रद्युनोयवृत्ती
*
॥१७॥
प्रजायते ॥ ३८ ॥ भगवानाह तपसा, पापं विच्छेत्स्यते तव । सकलं कलधौतस्य, मलः किल यथाऽग्निना ॥ ३९ ॥ श्रुत्वेति व्रतमादाय, दायाद इव स प्रभोः। तत्रैव व्यहरद्राजगृहे कर्मक्षयोद्यतः॥४०॥ वैरी स्वजनहन्ताऽसौ, सर्वासौष्ठवकारणम् । निन्द्यमानो जनेनैवं, महात्मा सहते स्म सः ।। ४१ ।। रज्यमानो रजःपुजैः, कुटबमानश्च यष्टिभिः । दलिभिर्दल्यमानोऽपि, सहे देहे स निस्पृहः ॥ ४२ ॥ दध्यौ च संवराभावे, लग्नं कर्मप्रदीपनम् । मम विध्यापयन्त्येते, रजसा साधु साधु तत् ॥४३॥ कुवल्ल्यामिव वल्ल्यां मे, तनौ कर्मफलानमी । यष्टिघातलेघूकत्तुं, पातयन्तु पचेलिमान् ॥४४॥ उत्पत्त्या हसतः कर्मसरटान् ज्ञानभास्करम् । सदावृत्तिस्थितान् लोटेन्तु किं मम नश्यति ॥४५॥ अमी जाङ्गुलिका गालिजागुलीमन्त्रजापतः। कर्मनागकुलान्यष्ट, नाशयन्ति धनाद्विलात ॥ ४६॥ एतेऽष्टादशधा पापस्थानवृश्चिकजातिजम् । आक्रोशमन्त्रनिमन्तो, हिता मे किल्विषं विषम् ॥ ४७ ॥ नित्यं च षण्णराचारीसप्तमान निघ्नता त्वया। रे जीव ! सप्ततत्वीव, निहता निहतात्मना ॥४८॥ यत्तत्र जीवोsजीवश्चाप्याश्रवः संवरस्तथा । निर्जरा बन्धमोक्षौ च, षण्णराः स्त्री च सप्तमी ॥ ४९ ॥ परायत्ततया नित्यं, तत्तद्वन्धं विधायिनः। प्रायश्चित्तं भवेदित्थं, सहस्व निभृतस्ततः॥ ५० ॥ एवं विचिन्तयन्नेष, विशेषध्यानसङ्गतः। सर्वकर्मक्षयात् प्राप, निष्पापः परमं 13 पदम् ॥ ५१ ॥ इत्याक्रोशपरीषहः॥ | अथ वधपरीषहोदाहरणं, तथाहि-श्रावस्तीस्वामिनोऽस्तीह,जितशस्त्रोस्तनूरुहः। धारिण्यांसप्ततत्त्वज्ञः, कुमारः स्कन्द| काभिधः ॥१॥ पुरन्दरयशाश्चास्य, स्वसा दण्डकिभूभृता । परिणीता विनीतास्ति, कुम्भकारकटे पुरे ॥२॥ दण्डकेराज्ञया हा राज्ञः, सचिवस्तस्य पालकः । तत्रागाद्वेत्रिमुक्तश्च, नृपं नत्वा निविष्टवान् ॥ ३ ॥ जामातृकुशलप्रश्नपूर्व कौशलिकं नृपः । तेना
3RDPRESECONCER
॥१७॥
SASARAL