SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना श्री IP प्रव्रज्याविधाने ॥१३॥ REATEGORAKAAGACE वज्रोऽयं नवतत्यास्त्री, नवो धनागरावभूत्। चारूमिकायां रुक्मिण्यां, यो धात्रापि न यन्त्रितः॥ १३ ॥ तामवार्या स्तुवे यस्या, धर्मपुत्रो वृषासनः । गणेशो हरिभद्रायश्चित्रं भववियोगभूः ॥ १४ ॥ चतुर्दशशती ग्रन्थान, सदालोकान् समावहन् । हरेः शतगुणः श्रीमान् , हरिभद्रषिभुर्मुदे ॥ १५ ॥ तमःस्तोमं स हन्तु श्रीसिद्धसेनो दिवाकरः । यस्योदये स्थितं मूकैरुलुकैरिव वादिभिः ॥१६॥ सिद्धव्याख्यातुराख्यातुं, महिमानं हि तस्य कः । समस्त्युपमितिर्नाम, यस्यानुपमितिः कथा ॥१७॥ वादं जित्वाऽऽल्लुकक्षमापसभायां तलपाटके । आत्तकपट्टो यस्तं श्रीप्रद्युम्नं पूर्वजं स्तुवे ॥ १८ ॥ वस्त्रप्रतिष्ठाचार्याय, नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति, सुखप्रश्नेषु दर्शनम् ॥ १९ ॥ नृपतिर्बोधितोऽमारिवारिणा हेमसूरिणा । चित्रं तु चेतना जन्तुजाते जातेह भूतले ॥ २० ॥ श्रीदेवानन्दसूरिभ्यो, नमोऽस्तु यदुपज्ञतः । सिद्धसारस्वतादीहक्, कुर्वेऽहं पालचापलम् ॥ २१ ॥ तद्विनेयं नमामि श्रीकनकप्रभसद्गुरुम् । पदार्थमर्थितो ज्ञात्वा, येन पोतोऽप्यहं पितुः ॥ २२ ॥ श्रीमते नरचन्द्राय, नमोऽस्तु मलधारिणे । ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ॥ २३ ॥ विभुं विजयसेनं तं, नौमि येन जनेऽखिले । न्यस्तो विकस्वरो न्यायस्तदीया कलिका मयि ॥ २४ ॥ कूवडग्रामविश्राम, पद्मचन्द्रप्रभुं स्तुवे । चातुर्विद्येन मे दत्ता, येनावश्यकवाचना ॥ २५ ॥ पहुप्रबन्धकाः श्रीबालचन्द्रस्य का स्तुतिः । मन्श्रीशवस्तुपालेन, यः स्तुतः कवितागुणात् ? ॥२६॥ RECEBOEGLUNUSRECEOFULOM
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy