________________
श्री
प्रव्रज्या•
श्रीप्रधुस्नीयवृत्ती
॥१६४॥
सोऽवदत् कस्त्वं १, स प्रोवाचार्यरक्षितः । पितृव्य स्वागतं पृष्ट्वा, प्राह त्वं द्रष्टुमागमम् ॥ २४ ॥ परोऽवादीदहं कायचिन्तायां यामि तत्वया । समर्पणीया मे मातुः, स्पष्टमेवेक्षुयष्टयः ||२५|| कथ्यं मातुः मया दृष्टो, बहिर्यानार्यरक्षितः । पूर्व दृष्टश्च तेनाहमि - त्युक्तः स तथा व्यधात् ||२६|| तुष्टाऽथ जननी दध्यौ, सुतस्य शकुनः शुभः । नव पूर्वाणि खण्डं च दशमस्य ग्रहीष्यति ||२७|| अज्ञत्वात्तनयो दध्यावङ्गान्यध्यापनानि वा । अहं ( नव ) तस्य ग्रहीष्यामि, दशमं सकलं न तु ॥ २८॥ ध्यायन्नितीक्षुवाटौकः पार्श्वेऽगादार्यरक्षितः । पुनर्दध्यौ च विध्यज्ञो, ग्राम्यवद्याम्यहं कथम् १ ||२९|| तत्कोऽपि श्रावकोऽभ्येतु, यामि तेन समं यथा । विचिन्त्येति बहिर्भागे, तस्थौ तस्यौकसः सुधीः ||३०|| तदा च ढढरो नाम, श्राद्धस्तत्र समागतः । नैषेधिकीत्रिकं कृत्वा, साधुभ्यो वन्दनं ददौ ॥ ३१ ॥ प्राज्ञत्वात् तत्कृतं तेनानुचक्रे वन्दनादिना । श्राद्धावन्दनतो ज्ञातं, सूरिभिः श्रावको नवः ॥ ३२ ॥ पृष्टश्च तैः कुतो धर्म्मागमः । सोऽथ यथातथम् । कथयामास सूरीणां श्राद्धस्यास्यैव मूलतः ॥ ३३ ॥ आख्यंश्च साधवः श्राद्धीरुद्रसोमासुतो यम् । यः कल्ये सिन्धुरस्कन्धमारूढः प्राविशत् पुरे ||३४|| किमेतदितिसूर्युक्ते, स वृत्तान्तं निज जगौ । दृष्टिवादं तदध्येतुं युष्मदन्तिकमाग ( ३०००)तः ।। ३५ ।। आचार्याः प्रोचुरस्माकं दीक्षया स प्रपठ्यते । पाठ्यते परिपाट्या च स प्राहैवं भवत्विति ।। ३६ ।। किंत्वत्र स्यान्न मे दीक्षा, सानुरागो यतो नृपः । सर्वो जनश्च ते तेन, बलादपि नयंति माम् ॥ ३७ ॥ तमादाय ततोऽन्यत्र, ययुस्तोसलिसूरयः । शैक्षनिस्फेटिका सेयं, प्रथमा प्रथिताऽजनि ॥ ३८ ॥ अयमेकादशांगानि, शीघ्रमेव पपाठ च । यावाँश्च दृष्टिवादोऽभूत्तत्र तावन्तमादित ॥ ३९ ॥ दशपूर्वी तदा व्रजस्वामीति स्वगुरोर्गिरा । तत्र गच्छन्नयं मध्येऽवंति संतिष्ठते स्म च ॥४०॥ तत्र श्रीभद्रगुप्ताख्यस्थविरोपान्तमागमत् । धन्योऽसि कृतकृत्योऽसीत्यश्लाघंत च तेऽनघम् ॥ ४१ ॥ किञ्च संलिखितांगोऽस्मि, न मे निर्यापकोऽस्ति
अचेले सोमदेवः
॥१६४॥