________________
श्री प्रव्रज्या०
श्री प्रद्यु श्रीयवृत्ती
॥ १६३॥
सत्कृत्य च गौरवात् । तस्य द्विजननाग्रस्यापहारं शासने ददौ || ६ || स्तुतिव्रतैरिव स्तूयमानोऽथ स धनैर्जनैः । सिन्धुरस्कन्धमारुह्य, निजं सदनमासदत् ||७|| तत्रापि तस्य बाह्याभ्यन्तरा चास्ति सभा वरा । उभे अपि हि कल्याणवेदिका कलशायते ॥ ८ ॥ सबाह्यसंसदासीनो, जनस्यार्धं प्रतीच्छति । वयस्यान् स्वजनांश्चापि तत्राऽऽयातान् निरीक्षते ॥ ९ ॥ तस्य भ्रूजानिवत्पूजां जनाः परिजनो व्यधात् । चतुष्पदाष्टापदाद्यैर्गृहं तस्य च पूरितम् ॥१०॥ स दध्यौ दृश्यते नाम्बा, मध्येष्ण्यं गतस्तथा । ननाम मातरं प्रोचे, तया च स्वागतं सुत ! ॥ ११ ॥ उदासीनामिव प्रेक्ष्य, जननीं स पुनर्जगौ । मातः ! किं नाभवतुष्टिः, तुष्टेऽपि नगरेऽत्र वः ॥ १२ ॥ चतुर्दशमहाविद्यास्थानाध्ययनतो मया । विस्मापितं पुरं सर्वे, राजराजसभान्वितम् ॥ १३ ॥ अम्बा प्राह कथं पुत्र !, मम तुष्टिः प्रजायताम् ? | यदधीतं त्वया तद्धि, सश्वसङ्घातघातकम् ||१४|| भवो भवति दीर्घोऽस्मात्, तस्मातुष्याम्यहं कथम् ? | दृष्टिवादं पठित्वा किं भवानस्ति समागतः १ ॥ १५ ॥ सदध्यौ स कियान् भावी, तत् पठाम्येनमप्यहम् । यथा तुष्यति माता मे, तोषितेन जनेन किम् १ || १६ || ध्यात्वेत्युवाच कुत्राम्ब!, दृष्टिवादः स पठ्यते । सा प्राह परमा श्राद्धी, श्रीजिनेन्द्रस्य शासने ॥ १७ ॥ अध्येष दृष्टिवादाख्याक्षरार्थं ध्यातवानिति । दृष्टिवादो हि दृष्टीनां वादस्तन्नाम सुन्दरम् ||१८|| अध्यापयति चेत्कश्चित्तदध्याये तमप्यहम् । दृष्टिवादं कृतेऽस्मिंश्च, जनन्यपि च तुष्यति ॥ १९ ॥ ध्यात्वेति सोऽब्रवीदम्ब !, दृष्टिवादविदः क ते ? । सोचे तोसलिपुत्राख्याचार्याः सन्तीक्षुधाम्नि नः ॥२०॥ स प्राह कल्येऽध्येष्येऽहं मातर्मा तद्भवोत्सुका । उक्त्वेति निश्चयं तस्थौ, तन्नामार्थमनुस्मरन् ॥ २१ ॥ प्रातः स प्रस्थितस्तस्य पितुर्मित्रं च वाडवः । ह्मो न दृष्टस्ततः प्रेक्षे, भ्रातृव्यमिति शुद्धधीः ॥ २२ ॥ नवेक्षुयष्टीः सम्पूर्णाः, खण्डं च दशमं करे । विभ्रदेष समायाति, निर्याति त्वार्यरक्षितः ॥ २३ ॥ युग्मम् ॥ सम्मुखः
अचे
सोमदेवः
॥१६३॥