SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्यु नीयवृत्ती ॥१६१॥ पातक्यपातयम् || ३८ ॥ किंच चित्ते जिनस्याज्ञा, चरित्रं च ममेदृशम् । असमंजसमीदृग् ही, विसंवदति दूरतः ॥ ३९ ॥ भवभूमीभृतः साक्षाद्गवाक्षादवतीर्य सः । आजगाम समां भूमिमध्यक्षां समतामिव ॥ ४० ॥ जनन्याः सज्जनन्यायानिपपात च पादयोः । सगद्गदमिदं चाह, बाष्पप्लुतविलोचनः ॥ ४१ ॥ मातः ! पातकिनां धुर्योऽनार्योऽस्मि कुलपांसनः । मातुरप्यर्त्तिकर्त्ता च कुपुत्रो - Sन्नयस्तव ॥ ४२ ॥ प्रेक्ष्योपलब्धचैतन्या, पुत्रमाश्वस्तमानसा । अभृद्धालकजालं च, दूरतस्तदपासरत् ॥ ४३ ॥ अकष्टयाऽनया पृष्टः, पुत्रो मातुरनातुरः । यथा तथा कथां स्वस्थ, कथयामास सप्रथाम् ॥ ४४ ॥ अम्बा सम्बोध्य तं प्राह, गृहाण त्वं पुनर्वतम् । tara वत्स!, भवमेव भ्रमिष्यसि ॥ ॥ ४५ ॥ स प्राह पापकर्म्माहमसहः संयमार्जने । परं करोम्यनशनं, नाशनं पापकर्म्मणाम् ||४६॥ अम्बा प्राह भवत्वेवं, मा त्वं भूत्वा त्वसंयमी । तुच्छेन भोगसौख्येन, भूरि दुःखं समार्जय ॥ ४७ ॥ किंस्विद्वह्निप्रवेशोऽपि वरं न व्रतभंजनम् । वरं मृत्युः सुशीलस्य, दुःशीलस्य न जीवितम् । ४८ ।। हित्वा सर्व स सावधं कृतदुष्कृतनिन्दनः । क्षमयित्वा च सत्वानि, चतुःशरणमाश्रितः ।। ४९ ।। संत्यज्य सकलं संगं, स्मरन् पंचनमस्क्रियाम् । सर्वाहारपरीहारविशुद्धध्यानवानयम् ॥ ५० ॥ स्थित्वा शिलायां तप्तायां, पादपोपगमेन च । क्षणाद् व्यलीयतोष्णेन, मृदुलो नवनीतवत् ॥ ५१ ॥ विशेषकम् ॥ जगाम त्रिदशं धाम, यथा पश्चात् स सोढवान् । उष्णः सह्यस्तथा धन्यैरन्यैरपि परीपहः ॥ ५२ ॥ शीतकाले शीतं उष्णकाले उष्णं वर्षासु दंशमशकसम्भव इति तत्परिषहदृष्टान्तः- आसीच्चम्पाधिराजस्य, जितशत्रुनरेशितुः । सुतः श्रमणभद्राख्यो, युवराजो महामनाः ॥ १ ॥ गुरोः श्रीधर्म्मघोषस्यान्तिके धर्मं निशम्य सः । निर्विण्णकामभोगः सन् परिव्रज्यामुपाददे ॥ २ ॥ सश्रुतश्च ससच्वश्चैकत्वयोग्यो गुरोर्गिरा । एकाकित्वविहारस्य, प्रतिमां प्रतिपन्नवान् ॥ ३ ॥ उ नयः ॥१६१॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy