________________
श्री
प्रव्रज्या०
श्रीप्रद्युश्रीयवृत्तौ
॥ १६०॥
वयसि पश्चिमे । अकाल इव सिद्धान्ताध्यायः सा नाधुनोचिता ॥ २० ॥ उष्णभग्नस्तयेत्युक्तः, स सुधासितया गिरा । खिद्यमानो व्रते सद्यः प्रत्यपद्यत तद्वचः ॥ २१ ॥ तरुणी च सुरूपा च विदग्धा सस्पृहापि च । चतुरस्यापि नो कस्य, धैर्यध्वंसाय जायते ? ॥ २२ ॥ दृष्टा हरति या चित्तं, चित्रलेप्याश्यमय्यपि । नारी नराणां सा हन्त, किमुच्येत सचेतना १ ||२३|| भोगानथ स भुञ्जानस्तया भावानुरक्तषा । गतं कालं न जानाति, दोगुन्दक इवामरः ॥ २४ ॥ इतः प्रतीक्ष्यमाणोऽपि तमवीक्ष्य व्रती चिरम् । उपाश्रयमुपायातः, कथयामास तद् गुरोः ॥ २५ ॥ गुरुणाऽपि हि सर्वत्र, साधून् प्रेष्य गवेषितः । न तु दृष्टोऽभवत्तथ्यं पुरेऽनश्यकुमारकः ||२६|| यतिनी तस्य माताऽथ, सुतोदन्तमजानती । अतिमोहेन वैकल्यं, प्राप तापवती हृदि ||२७|| हाईन्नयाईन्नयेति, विलापकलिताऽथ सा । परितो बालजालेन, बेष्टिता भ्रष्टचेष्टिता ।। २८ ।। उपहासपरैर्दुष्टैरनुकम्पा परैः परैः । वीक्ष्यमाणा त्रिके - भ्राम्यच्चतुष्के चत्वरेऽपि च ॥ २९ ॥ यं यं पश्यति तं तं च रुदती परिपृच्छति । अर्हन्नयस्त्वया क्वापि, किं महात्मन् ! निरीक्षितः १ ॥ ३० ॥ आपतन्तं च सहसा, निजेन तनुजन्मना । समानवयसं प्रेक्ष्याहन्नयोऽसीत्यभाष्यत ॥ ३१ ॥ दध्यौ च प्रमदं नायं, स्यादतो विषसाद च । इति तस्याः सुतान्वेषे, व्यतीयुर्विषमाः समाः ॥ ३२ ॥ अर्हनयं सुतं चित्ते, दधती दधती शुचम् । अईनयवशस्मारसापस्मारवशाऽभवत् ।। ३३ ।। वातायनगतोऽन्येद्युस्तया क्रीडन् महेलया । कृतोल्लापकबालस्याश्रौषीत्कलकलं किल ॥ ३४ ॥ यावन्मुखं परावृत्य, किमेतदिति वीक्षते । तावत्तां जननीमीक्षामास बालकमालिताम् ।। ३५ ।। अर्हनयानयेति, भाषमाणां मुहुर्मुहुः । प्रतार्यमाणां बालैश्वान्नयोऽस्मीतिभाषिभिः ।। ३६ ।। मलिनं तालनं जीर्ण, विभ्राणां च शुचा सिवीम् । धूलीधूसर सर्वांगां, वीक्ष्य तां स व्यचिन्तयत् ॥ ३७ ॥ अहो अहमधन्योऽस्म्यकृत्यकृत्यविधायकः । अम्बां दुःखार्णवे स्वं च भवे
उष्णपरिषहे
अर्हनकः
॥ १६०॥