________________
श्री
प्रव्रज्या०
श्रीप्रधुश्रीयवृत्ती
॥१४८॥
यात्रदुत्तरति स्नात्वा तावत् प्राग्जन्मवैरिणा । वीच्या सिताक्षयक्षेण, क्रोधतो योधितश्विरम् ॥ ६६ ॥ युद्ध्वा चिरं च ते सख्या, वज्रसारेण मुष्टिना । हतः प्रहतदर्पः स गतोऽथ धृतमत्सरः ||३७|| ततस्त्वदीयमित्रस्योपरिष्टातुष्टितः कृता । पुष्पवृष्टिश्व दृष्टि, सुरस्त्रीभिर्विकस्वरा ।। ६८ ।। तदा च भानुवेगस्य, विद्याधरपतेः सुताः । अष्टसङ्ख्यास्तमभ्यर्च्य निन्यिरे नगरं निजम् ॥ ६९ ॥ तासां च पितृदत्तानां पाणिग्रहमयं व्यधात् । पूर्वभाग्यप्रदत्तानामष्टानां दिश्रियामिव ॥ ७० ॥ सुप्तस्त्वाभिः समं द्वेषियक्षेणाक्षेपि सोऽन्यतः । प्रबुद्धः सौधमालोक्यारूढस्तं सप्तभूमिकम् ॥७१॥ सुदतीं रुदतीमेकां, तत्र प्रेक्ष्य मम प्रियः । तामुवाच किमेका त्वं, का च १ कस्माच्च रोदिषि ? ।। ७२ ।। सोचे साकेतभूपालसुराष्ट्रस्य सुताऽस्म्यहम् । सुनन्दा नाम दत्ता चाश्वसेननृपसून वे ॥ ७२ ॥ पित्रा सनत्कुमाराय हृत्वा विद्याधरेण तु । मुक्ताऽस्म्यत्र गतश्चैष, न जाने किं करिष्यति १ ॥ ७३ ॥ युग्मम् ॥ कौरव्योऽस्मीति मा भैषीरित्युक्त्वा तां सुहृत्तव । वज्रवेगं प्रिया चौरं हन्ति स्माशनिवेगजम् ७४ ॥ ततः सुनन्दां स्त्रीरत्नं, प्राग्वेतृवज्रनि (जन ) वेदितम् । उपयेमेऽश्वसेनाङ्गजनिजनितसम्मदम् ||७५ || वज्रवेगस्वसा सन्ध्यावली वग्रेऽमुमेव च । भ्रातृघाती पतिर्भावीति ज्ञात्वा ज्ञानिनो वचः ।। ७६ ।। जनको वज्रवेगस्याशनिवेगोऽथ मत्प्रियम् । अभ्यषेणयदस्यादाद्विद्यां सन्ध्यावली तदा ।। ७७ ।। तत्कालसिद्धविद्योऽयं, विद्याभुजबलोर्जितः । युयुधेऽशनिवेगेन, भानुवेगादिभिर्वृतः ॥ ७८ ॥ चिरं युद्ध्वा च चक्रेणाशनिवेगशिरोऽच्छिदत् । स्वन्मित्रेऽतः सुरैर्मुक्ता, पुष्पवृष्टिः पपात च ॥७९॥ वैताढ्याद्रौ ततो नीत्वा, चण्डवेगादिकैर्नृपैः । चक्रे खेचरचक्रित्वाभिषेकोऽस्य विवेकिनः ॥ ८० ॥ वन्दित्वा पूजयित्वा च प्रतिमाः शाश्वताईताम् । क्रीडार्थमत्रायातोऽयं मिलितश्च भवानिति ॥ ८१ ॥ प्रबुद्धोऽथ कुमारस्तं, वैताढ्यं सममानयत् । तेनापि तत्रायातेन, चक्रे चैत्येषु वन्दना ॥ ८२ ॥ ततः सखेचरः सान्तःपुरोऽसौ हस्ति
५ प्रव्रज्या
दुष्करत्वे सनत्कुमार कथा
॥ १४८ ॥