________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्ती
॥१४४॥
जावज्जीवममज्जणमणवश्यं भूमिसयणमुद्दिद्धं । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुरुवं ॥ ५ ॥
यावज्जीवं अमज्जनं-अस्नानं, उद्दिष्टमिति द्वितीयपदगतं चतुर्ष्वपि पदेषु योज्यते, यदुक्तमुक्त्या पूज्यश्रीहरिभद्रगुरोर्मया । समरादित्यसंक्षेपे, साधुस्नानोज्झक्षणे ॥ १ ॥ कृते स्नाने क्षणं शौचं रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं ब्रह्मचर्यस्य दूषणम् || २ || घातो जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमंगारे, इवाज्ञानप्रकाशनम् || ३ || अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वयं स्नानं ततः सिद्धिवधूसंगमसस्पृहैः ॥ ४ ॥ तथा अनवरतं भूमिशयनमुद्दिष्टं न तु पल्यंकादिशयनं, केशोद्धरणं च, तथा निष्प्रतिकर्मत्वं अपूर्व, विशिष्टमित्यर्थः, समासतो गाथार्थः, व्यासार्थस्तु निष्प्रतिकर्मत्वे श्रीसनत्कुमारचक्रवर्त्तिमुनिरुदाहियते, तथाहि श्रियं कांचन विभ्राणे, श्रीकांचनपुरेऽभवत् । ( श्रीविक्रमयशोव्याप्तः ) श्रीविक्रमयशा नृपः || १ || अन्तःपुरपुरन्ध्रयोऽस्य, सन्ति पंचशतीमिताः । स चिक्रीड समं ताभिर्वशाभिरिव वारणः ॥ २ ॥ तत्रेभ्यो नागदत्तोऽस्ति, तस्य लोकोत्तराकृतिः । विष्णोः श्रीरिव विष्णुश्रीः, प्रिया प्राणप्रियाऽस्ति च ॥३॥ साऽन्यदा हग्गवाक्षेण, प्रविश्य नृपहृद्गृहम् । विवेकादीनि रत्नानि चिरत्नान्यप्यपाहरत् || ४ || ज्ञात्वा दस्युमुदास्यैनां, न्यास्थदन्तःपुरे नृपः । बद्धा च बाहुपाशेनामुंचनातरसामपि ।। ५ ।। तामेव पीडयन्नंगे, रक्षत्यन्याः स वीरसूः । राज्ञः संवननं चौरनिग्रहश्च यतो नयः ॥ ६ ॥ निजप्रियावियोगार्त्तिग्रहप्रस्तोऽन्यचेतनः । उन्मत्तो नागदत्तोऽभूद्दत्तदुःखो नरेन्दुना ॥ ७ ॥ चतुष्के चत्वरे मार्गे, द्विपथे च चतुष्पथे । वैष्णवो विष्णुवद्विष्णुश्रियमेकाममस्त सः ॥ ८ ॥ तामेव हृदये विहिरन्तश्च सन्ततम् । न कांचनपुराधीशो, मेने कांचन किंचन ॥ ९ ॥ प्राणेश्वरापहारिण्यास्तस्याः प्राणापहारकम् । निर्मम्मुः कार्मणं राजपत्न्योऽन्याः कामनिष्ठुराः || १० || कार्मणन मृतामेता
प्रव्रज्यादुष्कर सनत्मार कथा
॥१४४॥