________________
श्री
प्रव्रज्या०
श्रीप्रद्युनीयवृत्तौ
॥१४०॥
सौ, तेनोपायेन जीवति ॥ २५२ ॥ सोऽपि द्वितीय कोणेऽस्थान्मासक्षपणपारणे । विभो रत्नादिवृष्टिं च दृष्ट्वा चेतस्य चितयत् ॥ २६३ ॥ न सामान्यो ह्यसौ शिष्यस्तदेतस्य भवाम्यहम् । ध्यात्वेति मुण्डीभूयासौ, पर्यगात् स्वामिना समम् || २६४ ॥ तृतीयां प्रावृषं स्वामी, द्विमासक्षपणोऽत्यगात् । कायोत्सर्गेण चम्पायामुद्गुहा (त्कटा) द्यासनस्तथा ॥ २६५ ॥ चतुर्थी प्रावृषं पृष्ठचम्पायां पंचमीं पुनः । श्रीमद्रिलपुरे चक्रे, चतुर्मासीमुपोषितः ।। २६६ ।। माघमासेऽन्यदा कायोत्सर्गस्थं कटपूतना । दृष्ट्वा त्रिपृष्ठजन्मस्त्री, वैक्रियित्वा तपस्विनीम् ॥ २६७ ॥ जटावन्काम्बुभिः स्वामिगात्रं शीतादुपाद्रवत् । सहन् श्रुतावधिज्ञाने, सविशेषत्वमाप सः ॥ २६८ ॥ युग्मम् ॥ चतुर्मासोपवासैश्च पष्ठीसप्तमिकाष्टमीः । सप्तिकाऽऽलभिकाराजगृहेषु प्रावृषोऽत्यगात् ॥ २६९ || लाढाद्यनार्यदेशेषु, शीतोष्णादिसहः प्रभुः । नवमीं प्रावृषं तस्थौ, द्रुतले वसतिं विना ॥ २७० ॥ भ्रमन् बभौ सगोशालः, कुशाल : सप्तवत्सरीम् । यतोऽध्वन्यन्यदा ( प्रोचे, ) गोशालो बालचेष्टितः ॥ २७१ ॥ ( वात्स्यायनं तपस्यन्तं दृष्ट्वा यूकासमाकुलं ) यूका शय्यातरत्वेन शान्तात्मानं पुनः पुनः ॥ २७२॥ दुर्वाचा तस्य दग्घेन, तं दग्धुं मुमुचेऽमुना । तेजोलेश्या प्रणश्यायं स्वामिपादानुपागमत् ।। २७३ ॥ भर्त्राऽऽयुः प्रकृतेरस्य, कृपां कृत्वा कृपालुना । प्रकृत्या शीतलेश्येन, सा हृता शीतलेश्यया ॥ २७४ ॥ तद्वीक्ष्य क्षमयामास, स्वामिनं मुनिरानमन् । युष्मदीयो मयाऽज्ञायि, नायमित्यसकृद्वदन् ।। २७५ ।। गोशालेन पुनः पृष्टस्तेजोलेश्योद्भवं जगौ । षण्मासी सनखमापमुष्टयाऽम्बुचुलुकेन च ।। २७६ ।। तत्कृत्वा प्रत्ययं वीक्ष्याष्टाङ्गज्योतिषवानयम् । पृथक् पर्याट गोशालो, जिनोऽहमिति विब्रुवन् ॥ २७७ ॥ दशमीं प्रावृषं स्वामी, श्रावस्त्यां पुरि निर्ममे । अप्येकपुद्गलन्यस्तदृष्टिः प्रतिमया स्थितः || २७८ || पेढालग्रामपार्श्वस्थः, शक्रेणेति प्रशंसितः । श्रीवीरः क्षोभ्यते नैव, सेन्द्रैर्देवासुरैरपि ॥ २७९ ॥ युग्मम् ॥
परिसहोपसर्गे श्री वीरकथा
1188011