________________
श्री
प्रव्रज्याविधाने
॥ १० ॥
तस्माद्वतेष्वथ च भूरिषु सूरिषु श्रीचन्द्रप्रभः प्रभुरभूद् गुणरत्नभूमिः । जिह्वाङ्कुशीभिरनिशं कविभिः खनद्भिः प्राप्तानि तानि न यतः परिनिष्ठितानि ||२४|| पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुष्पा (सुमा) कल्पोऽनल्पविकल्परम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्त समयूपुर्यां तु देवी ( व्याः पुरो, ) देवीभृतगुरुप्रदत्तमिव यो मन्त्रं फलाढ्यं व्यधात् ॥ २५ ॥ तेनोहितं । पतनतो विरता प्रबोधं, वक्ति स्वयं हि समयूपुरपट्टदेवी । किं ब्रूमहे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वर गुरोर्गरिमाणमस्य ||२६|| शिष्यास्तस्याथ चश्वारस्तत्त्वारब्धसुचेतसः । श्रीवीर १ शान्ति २ देवेन्द्र ३३ देवपूर्वाख्यसूरयः ४ ।। २७ ।। श्री शान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । वंशेषु तेषां सुमनस्त्वमद्याप्यस्तीति चित्रं हदि कस्य न स्यात् १ ॥ २८ ॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पतिमनन्तमन्तःसभं शुभं यः शुभमुज्जगार ।। २९ ।। हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्म्मध्वजः, कीत्तिर्घोषवती सदापि विशदा यस्याक्षमाला प्रभोः । देवानन्दगुरुर्जयत्ययमितः पुंरूपभृद्भारती, शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ॥ ३० ॥ शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिषः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभस्तदनु ॥ ३१ ॥ अतुल्यशल्यत्रयवत् त्रयस्ते, चारित्रभूभर्तृकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ ३२ ॥ आद्यस्तु विद्यमानेषु, श्रीदेवानंदसूरिषु । जगाम सदां धाम, तद्बोधनचिकीरिव ॥ ३३ ॥ भूयौदार्यविशेषतोऽपि परमानंद प्रदानोद्यतः, सूरिनैष्ठिकशेखरः स परमान्नदः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः || ३४ ॥ वन्दे श्रीकनकप्रभस्य समतां यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिःश्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थत्वमुपा
प्रस्तावना
॥ १० ॥