________________
प्रव्रज्या०
परिसहोपसर्गे श्री वीरकथा
श्रीप्रद्यु: म्नीयवृत्ती
॥१३४॥
SHAILSHRESSISRO
देवाः, पितरौ दध्यतस्ततः ॥१५६।। वयं वर्धामहे स्वर्णरत्नधान्यधनद्ध्वम् । अस्मादस्य करिष्यावो, वर्धमानाभिधां ततः ॥१५७।। नाम्लैन कटुभिर्नातितीक्ष्णैर्नातिमधूलकैः । रसैः पालयति बालं, गर्भ स्वं त्रिशला प्रमः ॥ १५८ ॥ गर्भयोगी जिनो मातुः, पीडारक्षणदक्षिणः । तथा संकुचितस्तस्थौ, यथा नास्तीति लक्ष्यते ॥ १५९ ॥ ततश्च त्रिशलादेवी, दध्यावत्यन्तदुःखिता। हृतो मृतो वा मे गर्भो, यन्न स्फुरति कुत्रचित् ।। १६० ॥ जीवितादधिकं तं च, विना मे जीवितेन किम् । ध्यायन्तीति शुचा बाढं, हृदि तापमवाप सा ॥ १६१ ॥ अनन्दिवर्द्धनो नन्दिवर्द्धनोऽभूत सुदर्शना । कुदर्शना तदा देव्या, गर्भाभावादिते हृदि । १६२ ॥ तं ज्ञात्वाऽजनि सिद्धार्थोऽप्यसिद्धार्थः स्वचेतसि । युतोऽपत्ययुगेनाप्यगमच्च ननु वेदनाम् ॥ १६३ ॥ तत्तापेन भृशं तप्तः, सावधानोऽवधौ विभुः। देशेन स्फूर्तिमान मातुर्मुदः स्फूर्तिमजीजनत् ॥१६४॥ देव्यभ्युत्थाय पत्यै साऽऽकथयत्तत्तथाऽथ सः। महोत्सवं ततानान्तःपुरमन्तःपुरं च तत् ॥ १६५ ॥ स गर्भात् सप्तमे मासि, चित्तेभिग्रहमग्रहीत् । यबादास्ये व्रतं पित्रोर्जीवतोरसमाधिकृत ॥ १६६ ।। अथोच्चस्थे ग्रहव्यूहे, विलोकितुमिव प्रभुम् । आयाते सप्रकाशासु, दिक्षु विश्वस्य हृद्यपि ॥ १६७ ॥ चैत्रशुक्लत्रयोदश्यां, चन्द्रे हस्तोत्तरास्थिते । स्वामिनी सुषुवे सूर्नु, स्वर्णाग सिंहलाञ्छनम् ॥१६८॥ क्षणं दत्तसुखं तत्र, क्षणे श्वभ्रजुपामपि । निष्कम्पानि दिक्कुमारासनानि च चकम्पिरे ॥१६९॥ भक्क्याऽनवधयोऽभ्येत्य, प्रयुक्तावधयोऽथ ताः । षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ॥ १७० ॥ अथ शक्रः प्रभोर्जन्म, विज्ञायासनकम्पतः । एत्य स्वं पञ्चधाकृत्वा, निन्ये तं मेरुमूर्द्धनि | ॥ १७१ ॥ त्रिषष्टिरपरेऽपीन्द्रा, अहंपूर्विकयाऽऽययुः। तत्र स्नात्रेऽल्पगाशे, शक्रः स्वामियशङ्कत ॥ १७२ ॥ भेत्तुमद्रिभिदो भ्रान्ति, पादांगुष्ठेन पीडयन् । स्नात्राय वेत्रिवन्मेरु, संकेतेनादिशज्जिनः ॥ १७३ ॥ तेनापि स्वशिरःकम्पनैष संदेशितो मघा ।
5535A
॥१३४॥