________________
श्री
प्रव्रज्या०
श्रीधुनीवृत्तौ
॥१३२॥
पकारकः । कायसुराश्च यो ( वाने सुरालये ) धर्म्म हेतुस्तमनुमोदये ॥ १२१ ॥ वन्दे नित्यानि विम्बानि, मेरुनन्दीश्वरादिषु । शत्रुंजयादितीर्थेषु तान्यनित्यानि वन्दये ।। १२२ ।। पंचस्वहं विदेहेषु, भरतैरवतेष्वपि । जिनान् जिनमुनींश्चापि, नमस्यामि त्रिधाऽपि हि ॥ १२३ ॥ अर्हत्तामर्हतां सिद्धि सिद्धतां सूरिरिताम् । उपाध्यायसदध्यायं साधुश्राद्धसुवृत्तताम् ॥ १२४ ॥ यच्च || विज्ञातमज्ञातं, घनं सद्धर्मकर्म्मसु । परेण स्वेन वाऽनायि, तत् सर्वमनुमोदये ॥ १२५ ॥ श्री सम्यग्दर्शनाद्यानि गुरूणां पुरतः पुरा । अंगीकृतानि भूयोऽपि, व्रतान्यंगी करोम्यहम् || १२६ || ज्ञानदर्शनचारित्राचारे भिन्नेष्टधाऽष्टधा । यो योऽभूदप्यतीचारस्तं तमालोचयाम्यहम् | १२७॥ यद्विराद्धं तपः शक्तौ, सामर्थ्य यच्च गोपितम् । मनो निर्माय निर्मायमहमालोचयामि तत् || १२८ || पंचाश्रवा निशाभोज्यं, कषायाणां चतुष्टयम् । कलिर्मायामृषा रागद्वेषौ पिशुनताऽपि च ॥ १२९ ॥ अवर्णवादोऽभ्याख्यानं, मिथ्यादर्शनशल्यकम् । इत्यष्टादश संख्यानि, पापस्थानानि वर्जये ॥ १३० ॥ सर्वमप्युपधिं बाझं, सावधं यौगमान्तरम् । उच्छ्वासे चरमे व्युत्सृजाम्यहं च पुराऽप्यदः ॥ १३१ ॥ अनित्यत्वं पदार्थानां मृत्योरशरणं तथा । संसारस्य च वैचित्र्यमेकत्वं कर्म्ममर्षणे ।। १३२ || जीवस्यांगस्य चान्यत्वमशौचं च शरीरके। आश्रवं कर्मणां तेषां संवरं कर्मनिर्जराम् ॥ १३३ ॥ धर्मस्वाख्याततां लोके, बोधिदुर्लभतामपि । भावना भावये मैत्र्यादिक्या अपि चतुर्मिताः ।। १३४ ॥ संघं धर्म्म गुरुं नाथं, पितरौ सुहृदं रिपुम् । सधर्म्म वा विधर्मं वा, खेदितं क्षमयाम्यहम् ॥ १३५ ॥ स्वं कर्म्म भुज्यते कोऽपि नोपकार्यपकार्यपि । तत्तयोस्तोपरोषौ किं :, क्षाम्यामि क्षमयामि तौ ।। १३६ ।। क्षमयाम्यखिलान् जीवान्, सर्वे क्षाम्यन्तु ते मयि । तेषु सर्वेषु मैत्री मे, विरोधो न च केनचित् ।। १३७ ॥ येन मेरुमितेनापि, तृप्तिर्जन्तोर्न जायते । षड्जीवकायघातेन, यस्योत्पत्तिश्च निश्चिता ।। १३८ ।। यः
४ प्रव्रज्या
स्वरूपे अभिग्रहे श्री वीरः
॥ १३२ ॥ ॥