________________
श्री
प्रव्रज्या०
श्रीप्रधुनीवृत्तौ
॥१२८॥
1
| पातये ॥४८॥ गुरुभक्तिं तु नोलंघे, मर्यादामिव वारिधिः । इत्युदीर्यार्यसम्भूतपार्श्वे गत्वाऽग्रहीद्व्रतम् ॥ ४९ ॥ युग्मम् ॥ श्रुत्वेदमनुनेतुं तमागतो नृपतिः स तु । न व्यावृत्तः परित्यक्तं, नाद्रियते हि साधवः ॥ ५० ॥ गीतार्थो गुर्वनुज्ञातश्चैकाकी विहरन्नयम् । तपःकृशशरीरः सन् मथुरामन्यदा ययौ ॥ ५१ ॥ सुतां तन्नगरीस्वामिपट्टराश्याः पितृस्वसुः । विशाखनन्दी तत्रास्ति, परिणेतुं | समागतः || ५२ || विश्वभूतिस्तु भिक्षार्थ, मासक्षपणपारणे । तदावासान्तिके गच्छन्, वृषेणोद्धुष्य पातितः ॥ ५३ ॥ विशाखनन्दिना तत्र, तं निरीक्ष्य तथा स्थितम् । समं स्वपरिवारेण, चक्रे कोलाहलो महान् ॥ ५४ ॥ विशाखनन्दी तद् वीक्ष्य, क्रुद्धो मुनिवृषो वृषम् । विधृत्य शृंगयोः शीर्षे, त्रिरश्रमयदम्बरे || ५५ ॥ तं मुक्तत्वोवाच रे पापाः, किं कोपयत मां सुधा ? । तत् कपित्थः फलध्वंसि, बलं किं बवापि मे गतम् १ ॥ ५६ ॥ तपसाऽनेन भूयासं, वधायास्य महाबलः । निदानी त्वन्दकोट्यायुः, प्रान्ते शुक्रे सुरोऽजनि ॥ ५७ ॥ इतश्च भरतेऽत्रैव, पुरे पोतननामनि । राइ रिपुप्रतिशत्रुस्तद्राज्ञी भद्राभिधाऽस्ति च ।। ५८ ।। सूचितोऽस्याश्रतुःस्वप्न्या, बलो नाम्नाऽचलोऽगजः । मृगावती मृगारातिमध्या रूपाद्भुता स्तुता ।। ५९ ।। उद्योतना च सा प्रैषि, जनन्या पितुरन्तिके । तां च पश्यन् कुरंगोऽसौ, स्मरव्याधेषुबाधितः ॥ ६० ॥ महाजनं समाहूयापृच्छदन्तःपुरे पुरे । कस्य स्याद्रत्नमुत्पन्नं स्याद्देवस्येति तेऽवदन् ॥ ६१ ॥ युग्मम्।। सोऽपि लज्जादि सन्त्यज्य, स्वसुतां परिणीतवान् । भोगासक्तो जनैरुक्तोऽन्वयनामा प्रजापतिः ॥ ६२ ॥ | भद्रा तु लज्जिता पुत्रेणा चलेन समं गता । माहेश्वरीं पुरीं कृत्वा, स्थिताऽगात् पोतनेऽचलः।। ६३|| विश्वभूतिश्युतः शुक्रान्नीचैर्गोत्रप्रभा - वतः । आगान्मृगावती कुक्षौ, साऽपश्यत् स्वप्नसप्तकम् ॥ ६४ ॥ संविज्ञातार्द्धचक्रित्वो, जन्मकाले सुतोऽजनि । स त्रिपृष्ठ करण्डत्वात् त्रिपृष्ठ इति विश्रुतः ॥ ६५ ॥ स चाशीतिर्धनुर्मानोऽनलेन हलिना सह । आद्येन हरिराजोऽयं, महास्नेहेन वर्तते ।। ६६ || परिभ्रम्य भवे शंख
प्रव्रज्यास्वरूपे अभिग्रहे वीरप्रभुः
॥१२८॥