________________
श्री
प्रव्रज्या०
श्री प्रद्यु
श्री वृत्तौ
॥ १२३॥
| आत्तव्रता विभर्निमेरुपेतास्तव मन्दिरे । सा दध्यौ कृष्णतुल्याः किं, षडप्येते ममाङ्गजाः १ ॥ ८ ॥ ततः प्रष्टुं गतोक्ता च, स्वा| मिना भाववेदिना । ते च पुत्राः षडप्येते, तत्र देवकि ! वर्द्धिताः ॥ ९ ॥ उत्प्रसूतस्तनी साथ, बवन्दे तान् षडङ्गजान् । अशोचच्च यदेकोऽपि न मया वर्द्धितोऽङ्गजः ॥ १० ॥ हत्वा सपत्न्या रत्नानि, प्राग्भवे देवकि ! त्वया । यदेकमर्पितं तस्यै, स्वाम्याख्यतदिदं फलम् ॥ ११ ॥ तत् निन्दंती ययौ सद्यन्याचान्ता देवकी शुचा । पृष्टा च हरिणा मातर्जातदुःखव दृश्यसे ।। १२ ।। सोचे त्वदप्रजास्त्वं च वर्द्धितास्त्वन्ययाऽन्यया । वर्त्तते वत्स ! बाढं मे, बाललालनकौतुकम् ॥ १३ ॥ तपसाऽऽराधयत् कृष्णस्तत्रार्थे नैगमे| षिणम् । स प्राह नेमिनाथान्ते, बालः सन् प्रव्रजिष्यति ॥ १४ ॥ ततः कश्चिच्च्युतो देवो, गजस्वमेन सूचितः । उत्पन्नो देवकीकुक्षौ, सा तं बालमलालयत् ||१५|| गजाद्यत् सुकुमारोऽसौ प्रेमस्थानमिवाच्युतः । मातुर्भ्रातुः प्रमोदेन, समं सोऽवर्द्धत क्रमात् ।। १६ ।। | ये गजः क्षमाधीशद्रुमकन्यां प्रभावतम् । सोमां च क्षत्रियाजातां, सोमशद्विजात्मजाम् ॥१७॥ अन्यदा द्वारकापुर्या, श्रीनेमिः समवासरत् । शुश्राव देशनां तस्माद् भार्यायुगयुतो गजः || १८ || वैराग्यवाननुज्ञाप्य, पितरौ प्रावजद्गजः । सबधूकोऽपि तद्दुःखाद्यदवो रुरुदुस्तराम् || १९ ॥ प्रभुं पृष्ट्वा श्मसानेऽस्थात्, सायं प्रतिमया गजः । सोमशर्म्माद्विजेनैक्षि, तेनाध्यायि च मान से | २० || पापचिकीर्षुः पाषण्डं, तनयामेष मेऽत्यजत । दीप्ताङ्गारघटीकण्ठं, गजशीर्षे न्यधारयत् ॥ २१ ॥ दीप्ताङ्गारैरयं दग्धो देहेनाङ्गारतां गतः । उप्तः ( उत्कः ) कर्मक्षयात् सिद्धिक्षेत्रे तिलकतामगात् || २२ || उत्कः प्रगे रथारूढो, द्रष्टुं गजमधोक्षजः । आयान् पुर्या बहिर्विप्रं वृद्धमृद्धेष्टिकाभरम् || २३ || वहन्तमेकं गच्छन्तं वीक्ष्य देवकुलं प्रति । निन्ये तत्कृपया पाकादेकां स्वयमपीष्टिकम् || २४ ॥ युग्मम् । लोकेऽथ कोटिशोऽनैषीत्, कृतकृत्योऽभवद् द्विजः । गतः स्वामिसदः कृष्णस्तत्रापश्यद्गजं न
४ प्रव्रज्या
स्वरूपे
क्षमायां
गज
सुकुमारः
॥ १२३॥