________________
श्री
प्रव्रज्या०
श्रीप्रद्युः नीयवृत्ती
॥११८॥
गोकुले गोपैः, कृष्ण कृष्ण इतीरितः । बालोऽवर्द्धत तं तत्र, दिदृक्षुर्देवकी ययौ ॥ ९३ ॥ श्रीवत्सलाञ्छनं सूनुमिन्द्रनीलमणि - प्रभम् । देवकी मुमुदे वीक्ष्य, यशोदोत्सङ्गसङ्गिनम् ॥ ९४|| बालोऽपि देवसाहय्यादहन् शकुनिपूतने । यमलार्जुनभंगं च, चक्रे दध्यौ ततः पिता ॥ ९५|| स्वौजसा प्रथमानोऽस्ति बालोऽयं तस्य रक्षणे । कंमुञ्चामीति स ध्यात्वा, रामं साहायकेऽमुचत् ॥ ९६ ॥ सुखं रामश्च कामश्र, गोपीनां मृत्युभिर्द्विषाम् । मनोरथैश्च बन्धूनां वर्द्धन्ते सह विष्णुना ||१७|| नानाविधाभिः क्रीडाभिः क्रीडतोस्तत्र गोपयोः । श्रीरामकृष्णयोरेकादश वर्षाणि जज्ञिरे ||९८ ॥ ततः शौरिपुरे श्रीमन्नेमिजन्ममहोत्सवम् । श्रुत्वा दशार्हो दशमो मधुरायां ततान तम् ॥ ९९ ॥ कंसस्तत्रागतो वीक्ष्यैकनाशां गणकं जगौ । कोऽप्यस्ति सप्तमो गर्भः ?, स प्राहास्ति तवान्तकः॥ १०० ॥ मुंच वृन्दावनेऽरिष्ठं, वृषभं केशनं हयम् । खरमेषौ च दुर्दान्तौ, हनिष्यति स हेलया ॥ १०१ ॥ आरोपयिष्यति स च शार्ड्स कालेयनागजित् । चाणूरघातकः पद्मोत्तरपंचकहस्तिभित् ॥ १०२ ॥ श्रुत्वेत्यादिश्य योग्यायै, मल्लौ चाणूरमुष्टिको | वनेऽमुंचदरिष्ठादीन् स ज्ञातुं निजविद्विषम् ॥ १०३ ॥ गोकुले शल्यतुल्यांच, चतसृष्वपि दिक्षु तान् । चतुरचतुरः शत्रुक्षये कृष्णोऽनयत क्षयम् || १०४ || सदस्यर्चार्थमानाय्य, शाङ्ग यो रोपयिष्यति । देया तस्मै सत्यभामा, कंसः वैरीत्यघोषयत् ॥ १०५ ॥ धनुषा पर्य भूयंत, भुजवन्तोऽपि भृभुजः । आद्यो मदनवेगायां वसुदेवात्मजो रथी ॥ १०६ ॥ चापरोपार्थमायातस्तां निशां गोकुलेऽवसत् । रामकृष्ण महास्नेहात्, प्रातः कृष्णं सहानयत् || १०७॥ युग्मम् || पथि लग्ने रथे वीक्ष्यानासहं चलनासहम् । कृष्णः पदातिरव्यग्रो, न्यग्रोधमुदमूलयत् ॥ १०८ ॥ तं च कृष्णवलं वीक्ष्य, बलादेष रथेऽनयत् । मथुरायां गतावेतौ नृपाक्रान्तं धनुः सदः ॥ १०९ ॥ दूनामन्येक्षणैर्भामा, कृष्णे व्यश्रमयद् दृशम् । पतिते सत्यनाख्येयेऽनाधृष्टावहसन् जनाः ॥ ११० ॥ कृष्णस्तल्लीलयाऽऽदायारोपयद्वि
४प्रव्रज्या
स्वरूपे
तपोवैया
वृत्ये
वासुदेवः
॥ ११८ ॥