________________
श्री
प्रव्रज्या०
श्रीप्रधु
श्रीयवृत्ती
॥११४॥
तं जगौ ? ॥ १९ ॥ मुनिनोक्तं जिनस्योक्ते, लब्धेऽन्यत् किं नु याच्यते १ । लब्धे चिन्तामणों को नु, तत्परः प्रस्तरे भवेत् ? ॥ २० ॥ तेनेत्युक्तो दिवं देवो, यतिर्वसतिमागतः । पृष्टो मुनिजनैर्व्यक्तमनुत्सिक्तं शशंस सः ॥ २१ ॥ द्वादशाब्दसहस्रयन्ते, स्मृत्वा दौर्भाग्यमुत्कटम् । स्त्रीवाल्लभ्यनिदान्येषोऽनशनी शुक्रमासदत् || २२ ॥ इतः सौरिपुरे राज्ञोऽन्धकवृष्णेः सुता नव । जज्ञिरे श्रीसुभद्रायां, समुद्रविजयादयः || २३ || नन्दिषेणस्य जीवोऽथ महाशुऋदिवश्रयुतः । दशार्हो दशमो जज्ञे, सुरूपः सुभगाग्रणीः || २४ || समुद्रविजयं राज्ये, विन्यस्यान्धकवृष्णिना । सुप्रतिष्ठान्मुनेरात्तत्रतेनासादि निर्वृतिः ॥ २५ ॥ निधिभिनवभिर्भक्त्या, सेव्यमानोऽनुजन्मभिः । समुद्रविजयो राजा, रेजे चक्रीव जंगमैः ॥ २६ ॥ वयस्थो वसुदेवः स्त्रीनेत्र मानसमोहनः । सरःपद्म इवालीभिः, पौरस्त्रीभिरवेष्टयत ॥ २७ ॥ तासां समस्तवस्तूनां वस्तूनां विक्रयेऽप्यभूत् । सर्वत्र वसुदेवाख्या, युगान्ते जलपूरवत् ॥ २८ ॥ यः पङ्को दुर्भगो दूरीकृतः स्त्रीभिः पदैरपि । न्यस्तः शीर्षे सपद्याभिः कुम्भत्वे वह्निसाधनात् ।। २९ ।। सर्वासामपि रामाणां, वसुदेवैकचेतसाम् । श्वश्रूननान्दृजामातृज्ञातेयो हृदि नावसत् ॥ ३० ॥ वसुदेवांगसौभाग्यविह्वलं रमणीजनम् । पौरा वीक्ष्य नृपस्याख्यनिति विप्लवशङ्किनः ॥ ३१ ॥ समुद्रविजयेनाथ, न्यस्योत्संगे निजोऽनुजः । आभाषि दुर्बलो भूस्त्वं, बहिर्भ्रान्त्या ततस्त्वया ||३२|| स्थेयं सदा मदावासे, कलाभ्यासं वितन्वता । तथेति प्रतिपद्यासौ स सौष्ठवमवस्थितः ॥ ३३ ॥ युग्मम् ॥ प्रहितं शिवया देव्या, समुद्रविजयं प्रति । सोऽन्यदा चन्दनं चेटीहस्ताज्जग्राह नर्मणा ॥ ३४ ॥ सोचे स्त्री नर्मदोषेण त्वमत्रासि नियन्त्रितः । तं मत्वा निशि वार्ष्णेयो, नगरान्निरगाद् द्रुतम् ||३५|| अनाथमृतकं किंचिद्दग्ध्वा वर्णालिमालिखत् । वसुदेवोऽनलेऽविक्षद्, गुरुभिर्दूषितो गुणैः ||३६|| विधायेति व्रजन्नेप, विप्रवेषः कदाचन । नार्याऽऽरोप्य रथं निन्ये, स्वग्रामे स्वगृहे तथा ||३७||
४ प्रव्रज्या
स्वरूपे
तपोवैया
वृत्ये
वासुदेवः
॥११४॥