________________
श्री प्रव्रज्या०
श्री प्रद्यु
श्रीयवृत्ती
॥१०९ ॥
कलाभिश्व, विबुधत्वमुपाददे || १० || सुश्रावककुलोत्पच्या सततं साधुसङ्गमात् । परमः श्रावकः सोऽभूद्, विचाराचार शिक्षितः ॥ ११ ॥ स्वमूर्त्तिनिर्जितानङ्गमूर्त्तिप्रस्फूर्त्तिरप्ययम् । शमेन स्थायिभावेन, शान्तो रस इवाभवत् ॥ १२ ॥ इतश्च धर्म्मघोषस्य मन्त्रिण: प्रेयसीगणः । आक्षिप्तहृदयो जातः, सुजातगुणसम्पदा || १३ || प्रियंगुरन्यदा प्राह, स्वप्रेष्यां प्रियया गिरा । आयान्तमध्वनाऽनेन, सुजातं मे निवेदयेः ||१४|| अधैष समुहद्वृन्दो, वृन्दारक इवौजसा । आगच्छन्नध्वना तेन, प्रेष्ययाऽस्यै निवेदितः |||१५|| प्रियंगुः स्वपत्नीभिर्वयस्याभिरिवान्विता । रूपं नेत्रामृतं तस्य, पिवति स्म तृषातुरा ।। १६ ।। वदति स्म च सा धन्या, नारी नारीजनेऽखिले । बरो वरतरो यस्या, एष निःशेष सुन्दरः || १७ || प्रियंगुरन्यदा चान्यसपत्नीमध्यचारिणी । सुजातवेषमाधाय, रमते तस्य चेष्टया || १८ || तदा मन्त्र्यागतो हित्वा क्वणत् प्राणहितायुगम् । कपाटच्छिद्रेणापश्यत्, सर्वाः प्राणहितास्तथा ।। २९ ॥ दध्यौ च सर्वशुद्धान्तोऽशुद्धांतोऽयमभूद् ध्रुवम् । माऽऽशंकंतामतो भिन्ने रहस्ये छन्नमस्तु तत् ॥ २० ॥ कुपितेन सुजाताय, कूटलेखस्य दर्शनैः । नृपतिं कोपयित्वा स वचनीयभयेन च ॥ २१ ॥ प्रेषितोऽरक्षुरीपुर्यां चन्द्रध्वजनृपान्तिके । वध्योऽयमविचार्येदं, लिखितं तस्य मन्त्रिणा ||२२|| युग्मम् ॥ सुजातस्तत्र यातश्चानमच्चन्द्रध्वजं नृपम् । तं लेख मार्पयच्चास्य, निर्विकारास्य एव सः ॥ २३ ॥ दध्यौ नृपस्तु विश्वस्तो, विघात्योऽयमुपायतः । ध्यात्वेति रमते तेन सह सर्वैसहा पतिः ||२४|| सुचिरं रुचिरं वीक्ष्य, तस्याचारं विचारकः । अचिन्तयन्नृपो हन्मि नृरत्नं कथमीदृशम् ||२५|| ध्यात्वेति विजने तस्याख्याय लेखमदर्शयत् । सुजातः प्राह यद्वेत्सि, तद् विधेहि निजेहितम् ||२६|| नृपतिः प्राह नाहं त्वां हन्मि गुप्तं पुनर्वस। उक्त्वेति स्वस्वसा तस्य, दत्ता त्वग्दोषदूषिता ||२७|| तया चन्द्रयशोनाम्न्या, संगमात् कुष्ठसंक्रमः । ईषदीषदभूत्तस्यास्तुल्यः साऽथ व्यचिन्तयत् ||२८|| धिग्मां तिग्मांशुतुल्योऽयं यः
४ प्रव्रज्या
स्वरूपे
नन्दिषेण
वृत्तं
॥१०९॥