________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्ती
॥१०८॥
तत्रापि चतुर्भङ्गयामचित्तमिश्रं ग्राह्यमिति ७॥ अथापरिणतं द्रव्यं देयं वस्तु न शुद्धं भावो वा दायकस्याशुद्धः, अथवा द्वयोर्दायकयोरेकस्य भावापरिणतं, अथवा द्वयोः श्रमणयोरेकस्य मनसि शुद्धं इतरस्य न तथा स्यात् तदा न ग्राह्यमिति ८ || लिप्तदोषसंसृष्टं, करमात्रकसावशेषद्रव्यैरष्टौ भङ्गाः, यथा संसृष्टो हस्तः संसृष्टं मात्र सावशेषं द्रव्यं १, संसृष्टो हस्त संसृष्टं मात्रं निरवशेषं द्रव्यं २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३, संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ४ असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यं ५, असंसृष्ट हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यं ६, असंसृष्टो हस्तः असंसृष्टं मात्रं सावशेषं द्रव्यं ७ असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यं ८, सावशेषद्रव्यभङ्गेषु ग्राह्यं परेषु हेयमिति ८ || छर्दिते मधुबिंदु दृष्टान्तः, तथा ह्यस्ति पुरी चम्पा, सस्यसम्पातसुदन्ा । निष्कम्पा परसैन्यैस्तु, शम्पा विप्लवभूरुहाम् ॥ १॥ तत्र मित्रप्रभो द्वेषितिमिरर्धिकदम्बके । नृपो मित्रप्रभो नाम, पद्मोल्लासकरैः करैः ||२|| लक्ष्मी संचारिणी तस्य, चिन्तासन्तापहारिणी । देवी तु धारिणी नाम, शीलादिगुणहारिणी || ३ || तस्यास्ति सचिवो धर्म्मघोषः पोषयिता श्रियः । प्रियंगुसात्म्यतस्तस्य, प्रियंगुर्नामतः प्रिया || ४ || अपरा अपि सन्त्यस्य, दयिता दयिताहृदः । ताभिः करेणुभिः कालं, करेणुरिव सोऽनयत् ।। ५ ।। तत्रास्ति धनमित्राख्यः, सार्थवाहो महाधनः । द्विधापि चित्तप्रेयस्या, राजमानो धनश्रिया ॥ ६ ॥ तस्योपयाचितशतैर्याचितस्तनयोऽजनि । स्वकायप्रभया दीप्तः, प्रभां तन्वन्नतिप्रभाम् ||७|| अजाते तत्र सञ्जाते, धनमित्रो धनाधिपः । मुदितो विदधे वर्द्धापनमृद्व्यनुसारतः ॥ ८॥ सुजातमस्य यो जातः, कुलेऽस्मिन् धनसंकुले । अस्तोकमिति लोकस्य, गिराः सर्वत्र विस्तृताः ॥ ९ ॥ इत्याकर्ण्य वचः कर्ण्य, जनकौ जनसम्मतं । विदधाते तस्य नाम, सुजात इति विश्रुतम् ॥ ९ ॥ तेन प्रवर्द्धमानेन, कलाकौशलशालिना । रूपेण च
द्वारे
एषणा
दोषाः
॥१०८॥