________________
प्रव्रज्या०
स्वरूपे
श्रीप्रद्यु. नीयवृत्ती
॥१०॥
CMORAKAALCHAKASHAN
| तं सम्बोध्यति मन्त्रीशा, स्वयं वसतिमेत्य च । उपालम्भकृदाचार्यैः, प्रत्युपालभ्यतेति सः॥२०॥ त्वयि श्राद्धे क्षुधाक्रान्तौ, माप्रव्रज्या
यदेतौ धर्मवर्जितौ । अपराधस्तवैवायं, न त्वन्यस्य महत्तमः ॥ २१ ॥ अहिलग्नो मन्त्र्याह, मम क्षमत विप्रियम्। इतःप्रभृति | मे चिन्ता, यतीनां निखिलाऽपि हि ॥ २२ ॥ उक्त्वेति यावद् दुर्भिक्षं, भिक्षुचिन्तां चकार सः। कथित'चूर्णपिण्डोऽयं, योग
उत्पादना
दोषाः१६ पिण्डं निबोधत ॥२३॥ योगाः सौभाग्यदौर्भाग्यकरा भैषजमीलनैः । प्रयुज्यमानाःपिण्डार्थ, यतीनां दोपकारकाः॥१॥ तथा ह्याभीरदेशेऽस्ति, नाम्नाऽचलपुरं पुरम् । तस्यादरे च नद्यौ स्तः, कण्हावेनाभिधानके ॥ २॥ तयोर्मध्येऽस्ति च द्वीपो, ब्रह्मद्वीपोऽभिधानतः । आस्ते कुलपतिस्तत्र, यतिपञ्चशतीयुतः॥३॥ स सदाऽप्यौषधिलिप्तपादुकारूढ एव हि । उत्तीर्य तटिनी बेना, याति श्रद्धावतां गृहे ॥ ४॥ सत्कारं कुरुते लोकस्तस्मै च श्लाघतेऽन्वहम् । निन्दति श्राद्धलोकं च, निष्प्रभावगुरुत्वतः ॥५॥ अथायेस| मिताचार्यास्तत्रयुर्वज्रमातुलाः । सबाष्पैः श्रावकैस्तेभ्यः, स वृत्तान्तो निवेदितः ॥ ६ ॥ सूरिभिः कथित तस्य, पादुकालेपकेतवे । भक्तियुक्तैरिव श्राद्धैर्नीतः कुलपतिहम् ॥ ७॥ बलात् प्रक्षाल्य तत्पादौ, पादुके चापि तज्जलम् । स्वकीयशिरसि न्यस्य, बहुमानेन भोजितः ॥ ८॥ श्रावकैर्भोज्यमानोऽपि, बहुमानोद्भटैरयम | धृतिं नाप वधस्थानं, नीतो बध्यः पशुर्यथा ॥९॥ भोजनानन्तरं सर्वे, जनास्तेन सहाययुः। स धृष्टः पादलेपस्य, भ्रमानद्या विवेश च ॥ १० ॥ लग्नश्च बृडितुं तस्याभूदपभ्राजना घना । अथार्यसमिताचार्यस्तत्रागच्छदतुच्छधीः ॥११।। वहोलोकस्य बोधाय, दत्वा चप्पुटिकां च सः। प्राह बेन्ने! परं पारं, यियासामि
||१०६॥ शुचे! तव ॥ १२ ॥ ततश्च मिलिते कूलयुगले विस्मितो जनः। सूरयश्च युताः पौरैस्तापसाश्रममाययुः ॥ १३ ॥ तत्र धम्मकथाख्यानाज्जनः सम्बोधितो बहुः । तथा प्रवाजिता पञ्चशती तेषां तपस्विनाम् ॥ १४ ॥ इत्थं शासनमुद्भास्य, सूरयः पुरमाययुः ।
PAAAAAA555