________________
श्री
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
ॐ55S
॥१०५॥
नाम तस्यान्,ि मन्त्री मन्त्रविदांवरः ॥ १॥ अन्यदा तत्र दुर्भिक्षे, जातवत्यतिदारुणे। जंघाबलपरिक्षीणा, न्यवसंस्तत्र सूरयः प्रव्रज्या॥२॥ शिष्यं निजपदे न्यस्य, मन्त्रतन्त्रौषधादिकम् । आख्याय च सगच्छं तं, प्राहिण्वन्नन्यनीवृति ॥ ३ ॥ प्रच्छन्नस्थेन च ! स्वरूपे क्षुल्लद्वयेन नयनाञ्जने। चूर्णः श्रुतोऽथ गच्छेन, समं प्रचलितं च तत् ॥ ४ ॥ गत्वा च स्तोकमध्वानं, तद् गुरूत्कण्ठया द्विधा । उत्पादना आगात् तत्रापरो गच्छस्तूद्दिष्ट स्थानकेऽगमत् ॥ ५॥ तावागतौ नतौ प्रोक्तौ, गुरुणा करुणावता । वत्सौ ! न रुचिरं चक्रे, व्या-18
दोषाः १६ | वृत्य यदिहागतौ ॥ ६॥ स्थातव्यमत्र संतोषपराभ्यामेव केवलम् । यन्नास्ति तादृशी भिक्षालब्धिर्दुर्भिक्षभावतः ॥ ७॥ ततः स्वयं
गुरुभ्राम्यन्, यत्प्राशु लभतेऽशनम् । तत्तयोः प्रथमं दत्वा, शेषमत्ति स्वयं पुनः ॥ ८॥ ततोऽल्पभोजनाद् वृद्धभावाच्च स्वगुरुं। | कृशम् । भृशं निरीक्ष्य तौ क्षुल्लाविति संलपतः स्म च ॥ ९॥ पातयङ्गयां गुरुक्लेश, गुरुं न रुचिरं कृतम् । आवाभ्यां भोजनोपाय-12 मपरं कुर्वहे ततः॥ १० ॥ ध्यात्वेति यत्पुराऽश्रावि, गुरोः कथयतः सतः। अनुभूतं तदन्तर्दा, विधाय नयनांजनम् ॥ ११॥ अनाख्याय गुरोस्तेनांजितनेत्रौ नृपौकसि । भोजनावसरे प्राविशातां दृष्टौ न केनचित् ॥ १२॥ राज्ञा सहैव सौहित्यं, यावद् भुक्त्वा च तो गतौ । नित्यमित्यदनाद् भूपोऽभवत्तनुतनुस्तयोः ॥ १३ ।। मंत्रिपृष्टोऽवदत कोऽप्याहारं हरति मेऽग्रतः । चाणक्योs. चिन्तयन् नूनं, कोऽपि भुक्तेऽस्य भाजने ॥ १४ ॥ ध्यात्वेति ततपरिज्ञानहेतोर्भोजनमन्दिरे । परतोऽपीष्टिकाचूर्णमक्षेपयदसौ रयात ॥१५॥ द्वितीये दिवसे वीक्ष्य, नवां चरणपद्धतिम् । अथ रोषं विधायाधामं नेत्राम्बुकारकम्।।१६।। अश्रुधौताञ्जनौ तौ च, क्षुल्लौ
॥१०५॥ वीक्ष्य त्रपावशः । वसतौ प्रेषयामास, महामन्त्री चणिप्रसूः ॥१७॥ अहं विट्टालितोऽस्माभ्यामिीत खेदजुषं नृपम् । विहितभृकुटिमत्रिमुकुटः स्फुटमूचिवान्॥१८॥ अद्य ते सफलं जन्म, तवाद्य विमलं कुलम् । यदाभ्यां पितराभ्यां त्वं, विहितः संविभागभाक॥१९॥
436395%9E