________________
श्री
प्रव्रज्या० श्रीप्रधु
नीयवृत्तौ
॥१०४॥
कर्त्तु, मातृस्नेहं मुखे स्तनः । क्षिप्तोऽस्य प्रश्रवश्वास्या, जज्ञे तत्क्षणमेव हि ॥ ४ ॥ ममातीतसुतस्थानेऽयं भावीति विचिन्त्य सा। विधवां च वधूं तस्मै, दासीव प्रददौ मुदा ॥ ५ ॥ इति व्रतभंगदोषः पश्चात् संस्तवेऽपि स्वयमभ्यूः ।
अथ विद्यादिदोषचतुष्टयं तत्र स्त्रीदेवताऽधिष्ठाना विद्या, पुरुषदेवताऽधिष्ठानो मन्त्रः, तत्र विद्योदाहरणम् -- पुरे गन्धसमृद्वाख्ये, बहुशिष्यसमन्विताः । विहरन्तः समाजग्मुः, सूरयो गुणभूरयः ॥ १ ॥ अन्यदा तद्विनेयानां गलितानां परस्परम् । एवंविधः समुल्लापः समानवयसामभूत् || २ || यदत्र ऋद्धिमानस्ति, सौगतानामुपासकः । कदापि न ददात्येष, श्रमणेभ्यस्तु किश्च - न || ३ || तदस्ति कोऽपि यस्तस्मादपि दापयितुं क्षमः । एकः प्राह व्रती मामनुज्ञां सम्प्रयच्छत ॥ ४ ॥ प्राज्यमाज्यं गुडं वस्त्रं, | दापयिष्याम्यहं ततः । अनुज्ञातः स तैर्यातस्तदीये वासवेश्मनि ॥ ५ ॥ हृद्यया विद्यया सद्योऽप्यभिमन्त्रयति स्म तम् । गतयाऽधिष्ठितः प्राज्यमाज्याद्यं व्यतरत्तराम् || ६ || संहृत्य विद्यां स्वस्थानमागतेऽस्मिंस्तपोधने । स प्रत्यागतचैतन्यो, विलापमकरोदिति ॥ ७ ॥ केनापि पापिना हा मे, घृतप्रभृतिकं हृतम् । मुष्टो मलिम्लुचेनेव, शुचेति विललाप सः ॥ ८ ॥
मन्त्रः पठितसिद्धः, तत्र दृष्टान्तः -- प्रतिष्ठानपुरेशस्य, मुरुण्डाख्यस्य भूपतेः । कदाचिदेकदा तत्रा, बभूव शिरसो व्यथा ॥ १ ॥ बहुशो विहिते विद्यामन्त्रे तन्त्रविदांवरैः । बभूव न गुणस्तस्य क्लान्तधातोरिवेशितुः ॥ २ ॥ इतश्च पादलिप्ताख्या, व्याहृतास्तत्र सूरयः । जने चाविदितैस्तैश्च, स्मरद्भिर्मन्त्रमात्मना ॥ ३ ॥ नाशिता नृपतेरर्त्तिः, शिरसो वशिनाऽऽत्मना । सर्वातिशायिनं बीच्य, चमत्कारं नृपोऽतुषत् ||४|| हृष्टेन सूरयस्तेनासनाद्यैः प्रतिलाभिताः । इत्थं मन्त्रार्जितः पिण्डो, विज्ञेयो मुनिसत्तमैः।। ५ ।। अथ चूर्णास्विरोधनादिकार्यसाधकाः नयनाञ्जनादयः, तत्रोदाहरणम्, पुरेऽभूत्पाटलीपुत्रे, चन्द्रगुप्तो नरेश्वरः । चाणक्यो
४ प्रव्रज्या
स्वरूपे उत्पादना दोषाः १६
॥१०४ ।