________________
श्री
प्रव्रज्या०
श्री प्रद्युनीयवृत्ती
॥१०३॥
|||५|| पात्रे वैकल्यमात्रेणाकृष्टे तेन स मोदकान् । दत्त्वा तत्प्रतिबोधाय धृतोपायस्तमब्रवीत् || ६ || भगवन् ! यामयुग्मस्य, प्रत्याख्यानं मया कृतम् । तत् सम्पूर्ण न वाऽपश्यदुत्पश्योऽथ मुनिर्नभः ॥ ७ ॥ स निरीक्ष्य सनक्षत्रं, तत्र नक्षत्रनायकम् । प्रत्यागतमनाः प्राह, प्रेरणा श्राद्ध ! सुष्ठु ते ॥ ८ ॥ उक्त्वेति नगरीमध्यान्निर्गत्य स सचेतनः । मोदकानिष्टिकापा कभस्मकश्मलितान् व्यधात् ॥ ९ ॥ चित्तवैकल्यदानेन, मुनिः कश्मलितः स तैः । रुषेव तांस्तथा कुर्वन् कृतप्रतिकृतिं व्यधात् ॥ १० ॥ कृतपुण्यसुतस्येव तस्य मोदकचूरणे । करेऽभूत्केवलं रत्नं भवाम्बुध्यम्बुपाटकम् ॥ ११ ॥ चित्तेन निजवैकल्याद्यदेष भ्रमितो मुनिः । सर्वथा नाशयामासातीव तलब्धकेवलः ॥ १२ ॥ कैतादृक् क्षपकः साधुस्तादृक् सुश्रावकः क्व च । तस्मान्न साधुभिर्ग्राह्यो, लोभपिण्डः कदाचन ॥ १३ ॥
अथ संस्तवः, स द्विधा गुणसंस्तवः सम्बन्धिसंस्तवश्च, एकैकोऽपि द्विधा - पूर्वगुणसंस्तवः पश्चाद्गुणसंस्तवश्च सम्बन्धिसंस्तवोऽपि द्विधा पूर्वसंस्तवो मातृपित्रादिः पश्चात् संस्तवः श्वश्रूश्वशुरादि, तत्र पूर्वगुणसंस्तवो यथा- अस्माकं भवतः पूर्व, श्रवणातिथयो गुणाः । तैराकृष्टाः समायाता, जातोऽसि नयनातिथिः ॥ १ ॥ दानानन्तरसंस्तवो यथा - "प्रत्यक्षं भवतो वीक्ष्य, गुणानद्य यथाश्रुतान् । बभूव विमलं चक्षुरसन्देहं च मानसम् ॥ १ ॥" अथ पूर्वसम्बन्धिसंस्तवो, यथा पितृमात्रादिसम्बन्धं भोजनलिप्सुः कुरुते, वृद्धां मातरं, बालां पुत्रीम् इत्यादि, अत्र दृष्टान्तो यथा कश्चिद्भिक्षागतः साधुर्निजमातुः समां स्त्रियम् । वीक्ष्याहारादिला म्पय्याद्बभूवाधृतिमानिव ॥ १ ॥ नेत्रे च साश्रुणी कुर्वस्तयोक्तं किमसीदृश: ? । पुनरुक्तमपि प्रोक्तेऽगदगद्गदया गिरा ॥ २ ॥ मम माता भवत्येव, तुल्याऽभवदतोऽधुना । तस्याः स्मरामि तेनाहमीदृशोऽस्म्यंत्र ! किं बहु १ ॥ ३ ॥ तया च प्रकटी
४ प्रव्रज्या
स्वरूपे
उत्पादनादोषाः १६
॥१०३॥