SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती ॥१०२॥ RECEGORIEOCHURCESS का सर्वालङ्कारः, स्तुतिव्रत इव स्तुवन् । प्रेक्षते स्म दृढाक्षिप्तः, स्नानोद्यत इवैकसि ॥ ६६ ॥ कोटिमूल्यं परोलक्षरत्नसंवम्मितं च ४प्रव्रज्या स्वरूपे तम् । अलंकारमलंचक्रे, स मुमुक्षुवरो नटः॥६७॥ भरतो भरतो नव्यः, सैष भूषणभूषितः। आदर्शग्रहमध्यास्त, सार्द्ध तैः पञ्चभिः उत्पादना शतैः ॥ ६८ ॥ रूपं निरूपयंस्तत्र, गलितादंगुलीयकात् । अन्याभ्योऽन्यादृशीमेकां, नि:श्रीकामैक्षतांगुलिम् ॥ ६९॥ विच्छायां दोषाः१६ प्रेक्ष्य तामन्यांगुलीभ्योऽप्ययमूमिकाः । शिरसः शेखरं कर्णयुगलादपि कुण्डले ॥७०॥ हारं कण्ठाद् भुजयुगादंगदे कंकणे त्यजन् । स इत्थमंगं निष्पध्र, पद्माकरमिवैक्षत ॥ ७१ ॥ ततः सावेगसंवेगो, भावनाभावनादयम् । उत्पाद्य केवलज्ञानं, कुन्तलानुदपाटयद् ॥ ७२ ॥ शतानां पञ्चकं तच्च, तदीयाभिनयं दधत् । विभूपणोज्झनं केशोल्लुंचनं च विनिर्ममे ॥ ७३ ।। गृहीतद्रव्यलिङ्गा है द्राग, धर्मलाभ प्रदाय सः । भरतो भरतो रंगमध्याभिर्याति यावता ।। ७४ ।। तावद्राज्ञा च तद्राज्ञीभिश्च धर्तु समीहितः। ऊचे | निवृत्तः किं चक्री?, न निवर्तेऽहमप्यतः॥ ७५ ।। सापि पंचशती राजपुत्राणां द्रव्यलिंगभाक् । जगाम सह तेनैव, गुरुपादयुगा-५ न्तिकम् ।। ७६ ।। पुनश्च पाटलीपुत्रे, तदीयाभिनयेक्षणात् । वैराग्यरंगितस्वांतः, प्रववाज घनो जनः ॥ ७७ ॥ न ग्राह्य इत्ययं मायापिण्डः श्रमणसत्तमैः । वृद्धप्राघूणकग्लानकार्य मुक्त्वा कदाचन ।। ७८ ॥ अथ लोभपिण्डा,-तत्रोदाहरणं केशरकसाधुः, एवं चैतत्-चम्पायामुत्सवदिने, मासक्षपणपारणे । द्विपक्षक्षपकः कश्चिदित्य. भिग्रहमग्रहीत् ॥१॥ तस्य चालभमानस्य, मोदकांश्चित्तमोदकान् । सक्लिष्टपरिणामेन, विकलत्वमजायत ॥२॥ बदतो धर्मलाभस्य, ॥१०२॥ स्थाने केशरमोदकान् । अभृन्निशा न तु भ्रान्तो, भिक्षाभ्रान्ति मुमोच सः॥३॥ यामिनीयामयुग्मे स, श्राद्धस्यैकस्य समनि। स्थानके धर्मलाभस्यावदत् केशरमोदकान् ॥४॥ चित्तं चलं परिज्ञाय, मुनेः सुश्रावकः स तु । केशराणां मोदकानां, भृत्वा भाजनमभ्यगात्
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy