________________
श्री
प्रव्रज्या०
श्रीप्रधु
श्रीयवृत्तौ
॥१००॥
तत् प्रपद्य गतो गुर्वन्ति के स्वाकूतमाख्यत । गुरुः प्राह न ते युक्तं, कर्तुं लोकद्वयद्विषत् ॥ २९ ॥ त्वं विवेकी कुलीनश्च विषयेषु रमस्व मा । बाहुभ्यामम्बुधिं तीर्खा, कथं मज्जसि गोष्पदे । ॥३०॥ वरं भुक्तं विषं नैव, सुखं वैषयिकं पुनः । एकशो हि विषान्मृत्युर्विषयेभ्यस्त्वनेकशः ||३१|| विनेयः प्राह भगवन्!, सत्यमेतन्न संशयः । न शक्नोमि परिव्रज्यां, विधातुं साम्प्रतं पुनः ||३२|| ताभ्यां हि चित्तमाक्षिप्तमुक्त्वा मुक्त्वा च स व्रतम् । वेषान्तरेण स प्राप, नटवन्नटवेश्मनि ॥ ३३ ॥ उभे अपि वृते तेन परिणीते पिताऽब्रवीत् । धार्मिकः सत्पुमानेष, उत्तमप्रकृतिस्तथा ॥ ३४ ॥ तदाराध्योऽप्रमत्ताभ्यां संमताभ्यां च नित्यशः । यथा न याति वैराग्यं, ते तथेत्यथ चक्रतुः ||३५|| पंचधा सेवमानस्य, सुखं विषयसम्भवम् । ताभ्यां सह महास्नेहाद नेहास्तस्य गच्छति ||३६|| अन्यदा नाटकं दश्यं, महिलारहितं दिवा । नृपस्येति नटाः सर्वे ययुर्यतिवरादिकाः ॥ ३७ ॥ विज्ञायैकान्तमाषाढभूतिभार्ये उभे अपि । प्रसन्नास्ये प्रसन्नायाः, पानमाचरतस्ततः ॥ ३८ ॥ कापिशायनपानेन, चेतनावर्जिते इव । यावत् संतिष्ठतस्तावद्यज्जातं तनबोधत ॥ ३९ ॥ नृपतौ नृपकार्येणातीव व्याक्षिप्तचेतसि । नाटकावसराभावान्नटाः स्वस्थानमाययुः ।। ४० ।। आषाढभूतिरप्याशु, प्रविष्टो वासवेश्मनि । ते चापश्यद्विवसने, पिशाच्याविव भीषणे ॥ ४१ ॥ प्रसरन्मदिरागन्धे, स्मेरास्ये मधुभाण्डवत् । कुष्ठिन्याविव दुष्प्रेक्षे, मक्षिकाजालमालिते ॥ ४२ ॥ चेतनाकेतनाभावात् पतिते कुणपे इव । ते निरीक्ष्य विरक्तात्मा, चिन्तयामास चेतसि ॥ ४३ ॥ विशेषकम् ॥ अहो मम विमूढत्वमहो दुश्चेष्टितं मम । अहो कोऽपि मदीयानां परिपाकः कुकर्म्मणाम् ॥ ४४ ॥ यदेतयोः कृतेऽशुच्योर्दुर्गतिद्वारतुल्ययोः । शुचि चरित्ररत्नं ही, शिवकारि च हारितम् ॥ ४५ ॥ नाशितः श्रुतधर्म्मश्व, मुधाकृतसुधारसः । त्यक्तो गुरुकुलावासो, निवासः सुखसम्पदाम् ||४६ ॥ व्रतं ध्वस्तं विश्वमाज्ञा, भग्ना लग्नाऽघसन्ततिः । विषयाः सेविता वान्ति
,
४ प्रव्रज्यास्वरूपे उत्पादना दोषाः १६
॥१००॥