SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या स्वरूपे श्री प्रबज्या० श्रीप्रद्युः म्नीयवृत्ती उत्पादना दोषा:१६ ॥९८॥ BI क्षुल्लकः प्राह यद्येवं, ततो घृतगुडान्विताः । सेवाः प्रयच्छ पर्याप्ता, भोजयामि यथा मुनीन् ॥ २६ ॥ ददामीति भणन् याता, स-1 क्षुल्लः स गृहान्तिकम् । क्षुल्लोऽथाकथयत्तस्य, तत्पत्न्या सह विग्रहम् ॥ २७ ॥स प्राह तर्हि तिष्ठ त्वं, द्वारि याम्यहमन्तरा । वदनिति गृहाधीशः, प्राविवेश स्ववेश्मनि ॥ २८ ॥ जायामूचे च किं सिद्धं?, भोज्यं साऽऽह तथेति च । प्राज्यमाज्यं गुडं चापि, तर्युत्तारय मालतः ॥ २९ ॥ तस्यां मालाधिरूढायां. स निश्रेणीमपानयत् । तेन व्याहृत्य च क्षुल्लो, यथेष्टं प्रत्यलाभ्यत ॥३०॥ तं वीक्ष्य तुमु. लं चक्रे, तया तेन च दर्शितम् । तस्या निजनसि न्यस्तांगुल्या तत्र विमूत्रणम् ॥३१॥ भृत्वा पात्रं च गत्वा च, सोऽन्यान् साधूनभोजयत् । नादेयमित्थं यनारी, कुर्यादात्मवधादिकम् ।। ३२ ॥१०॥ अथ मायापिण्डः, स च पिण्डाथै विविधं काणकुष्ठादिरूपं कुर्वतो भवति, तत्राषाढभूतिमुनिदृष्टान्तः, तथाहि जम्बूद्वीपस्य, भरतापाच्यखण्डके । देशोऽस्ति मगधो नाम, नगधोरणिबन्धुरः॥१॥ तत्र राजगृहं नाम, पुरं निजगृहं श्रियः । अस्ति प्रमुदिताशेषविबुधं स्व:पुरः प्रभम् ॥२॥ मंत्रांगपंचवकोऽस्ति, तत्र क्षत्रशिरोमाणिः। द्विषष्टि(न्त)पततिक्षोदसिंहः सिंहरथो नृपः ॥ ३ ॥ ब्रह्माण्डमण्डपे यस्याधिरूढा कीर्तिवल्लरी । सच्छायं भुवनं चक्रे, विच्छायं त्वरिमण्डलम् ॥ ४॥ विहरन्नन्यदा तत्रागमदागमदानधीः । शुद्धधर्मरुचिधर्मरुचिर्नाम गणाधिपः ॥५॥ उद्याने गुणवन्तस्ते, तस्थुर्गुणशिलाभिधे । बहुच्छाये तदाकीणे, जीर्णकल्पद्रुमा इव ॥६॥ तेषामाषाढभृत्याख्यः, कलाभूत्या समास्ति च। समस्तज्ञानपृथुलः, शिष्यःप्राथमकल्पिकः॥७॥ स एकदा प्रतिकुटमटनटकुटं गतः। नटश्च नृपमान्योऽयं, महान् कोऽप्यस्ति तत्र च ॥८॥ आषाढभूतिना तत्र, प्रविष्टेन च मोदकः । लब्धो गन्धेन रूपेण, रसेनापि प्रमोदकः ॥९॥ ततश्च निर्गतो दध्यौ, भविष्यति गुरोरयम् । आनयामि द्वितीयं तमद्वितीयं रसादिभिः ॥१०॥ ॥९८॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy