________________
श्री प्रव्रज्या०
श्रीप्रधु श्रीयवृत्ती
॥ ९४ ॥
अथ निमित्तम्- पिण्डार्थ लाभालाभादि कथयतो निमित्तपिण्डः, तत्रोदाहरणम्-कश्चन वचन ग्रामे, ग्रामस्वामी पुराऽभवत् । नरेन्द्रादेशतो देशान्तरे दूरे च सोऽगमत् ॥ १ ॥ चिरं कालं गते तस्य दयिता व्याकुलाऽजनि । गृहस्वामिवियोगो हि, दुःसहः कुलयोषिताम् || २ || अन्यदा श्रमणं भिक्षाऽऽयातं पप्रच्छ साऽऽदरात् । निमित्तं वेत्सि भगवन्!, स प्राह सुतरामिति ॥ ३॥ सोवाच गृहिणी स्वामी, कदा मम समेष्यति । । मुनिना प्रातरित्युक्ते, सा साह प्रत्ययोऽत्र कः । ४ । १ स प्राह प्रत्ययोऽयं ते, गुह्यदेशे मषोऽस्ति यत् । दृष्टश्वाद्य त्वया स्वमो, रजन्यामथ साऽतुषत् ॥ ५ ॥ तया मुदितया तस्मै, दापिता मोदिकादिका । परानप्रवरा भिक्षा, स भिक्षुः प्रमना ययौ || ६ || सा प्रातः प्रातनोत् प्रीत्या गृहे स्वस्तिकतोरणम् । स्वामिनः सम्मुखं प्रैषी निजं परिजनं तथा ॥ ७ ॥ स्वाम्येत्य स्वगृहे स्वामी, पपृच्छ गृहिणीं निजाम्। साऽथ तत्कथितं सर्वं गुह्यदेशमपादिकम् ॥ ८ ॥ निमित्तातिशयं साधोः, प्रशंसन्ती शशंस च ॥ स च मिथ्याविकल्पेनानन्पेन कुपितोऽधिकम् ॥९॥ आहूय श्रमणाभासं तं पप्रच्छ स तुच्छधीः । एतस्या वडवाया यत्, कुक्षौ गर्भोऽस्ति कीदृशः १ ॥ १० ॥ मुनिः प्राह समस्त्यत्र, पञ्चपुण्डूः किशोरकः भावि चेते वचः सत्यं जीवसीतरथा मृतः ॥ ११ ॥ तेनाथ गृहनाथेन, सरुषा पुरुषात्मना । उदरं दारयांचक्रे, वडवायाः स्वपत्तिना ॥१२॥ यथाऽऽदिष्टे ततो दृष्टे, किशोरे स मुनिं जगौ । मिथ्यावाक्यंऽत्र सजाते, दारयिष्यं तवोदरम् ॥ १३ ॥ मत्वेति मुनिभिर्लोकद्वयस्य हितमिच्छुभिः । निमित्तं सनिमित्तं वाऽन्यथा वा कथयेच्च न ( कथ्यते नहि ) ॥ १४ ॥ ३
अधाजीव पिण्डः, -तत्र जातिकुलगणादिषु तत्स्वरूपमात्मानं पिण्डार्थं वदत आजीवपिण्डः४॥ अथ वनीपकपिण्डः, ब्राह्मशाक्य परिव्राजककाकशुनकादिभक्तेषु पिण्डार्थ ततद्भक्तमात्मानं वदतो वनीपकपिण्डः ५ || अथ चिकित्सापिंडः, स च रोगप्रती
४ प्रव्रज्यास्वरूपे उत्पादना दोषाः १६
1198 11