________________
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
॥९२॥
BRUNERRORIS
|॥ ५॥ वत्स ! गच्छ सगच्छस्त्वं, सुभिक्षभूति नीवृति । वयमत्रैव तु क्षेत्रे, स्थास्यामो यतनापराः॥६॥ गुरोरादेशतस्तास्मन् , उत्पादना विहृते देशतस्ततः । नवभागीकृते क्षेत्रे, तत्र तस्थुस्तु सूरयः॥७॥ द्रव्यतः क्षेत्रतो वापि, कालतो भावतस्तथा । चतुर्विधयतनया,
दोषा:१६ यतीशा विहरन्ति ते ॥८॥ द्रव्यतो यतनां पीठफलकादिषु कुर्वते । क्षेत्रतो ममताहीना, वसतौ पाटकेऽपि वा ॥९॥ एकत्र पाटके मासमुषित्वाऽन्यत्र कालतः। भावतो ममताहीनाः, सर्वत्र व्यहरंश्च ते ॥ १० ॥ इतश्च सिंहाचार्येण, दत्ताहः प्रहितो मुनिः। संगमस्थविराचार्यप्रवृत्यन्वेषणाकृते ॥ ११ ॥ प्राग् यत्रोपाश्रयेऽभूवन, क्रमात्तत्रैव सन्ति ते । तानित्यवासिनो मत्वा, सोऽस्थात् पृथगुपाश्रये ॥ १२ ॥ तान्नत्वाऽवज्ञया भिक्षाक्षणे तैः सह यातवान् । अज्ञातोञ्छपरिभ्रान्त्या, क्लिष्टः शिष्यो व्यचिन्तयत् ॥१३॥ शाठ्येन भ्रमयत्येष चिरं प्रान्तकुलेषु माम् । भिक्षामादास्यते भद्रकुलेषु स्वयमेव तु ॥१४॥ तं क्लिष्टचेष्टितं मत्वा, सूरिराढ्यगृहऽविशत् । बालकं पूतनाग्रस्तं, क्रोशंतं तत्र चैक्षत ॥ १५ ॥ ततश्चप्पुटिक दवा, मा रुदस्तं गुरुर्जगौ । तत्तपोऽचिन्त्यसामर्थ्यानष्टा च कटपूतना ॥ १६ ॥ षण्मास्या विरते तत्र, बालके नित्यरोदनात । मुदिता मौदकापूर्ण, तस्याम्बा स्थालमानयत् ॥ १७ ॥ आदत्स्वेदमिति प्रोक्ते, गुरुणा करुणावता । दत्तो गृहीत्वा पर्याप्तमुपाश्रयमुपागमत् ॥ १८॥ विहृत्य प्रान्तगेहेषु, सूरयोऽपि समाययुः । विदधुर्विधिनाऽऽहारं, विधेयमनसश्च ते ॥ १९॥ आवश्यकस्य वेलायामयमालोचनक्षणे । गुरुभिर्गदितो भद्र, सम्यगालोचनं कुरु॥२०॥ स प्रोवाचाथ युष्माभिः, सहैव विहृतोऽस्म्यहम् । किमत्राशुद्धमेवास्तीत्युक्ते च गुरुरब्रवीत ॥२१॥ धात्रीपिण्डस्त्वया सूक्ष्मो, भुक्तश्चप्पुटिकावशात् । पूतनायाः प्रतीकारात, चिकित्सापिण्ड एव च।।२२।। दध्यौ शिष्योऽथ मे दोषानेष सूक्ष्मानपीक्षते । स्वकीयानित्यवासादीन् , महतोऽपि सतो न तु ॥ २३ ॥ स्वच्छिद्रालोकने लोको, वक्रः शुक्रसमोऽपि न । स एव हि सहस्राक्ष, 14