________________
श्री
प्रव्रज्या०
श्रीप्रद्युनीयवृत्ती
॥ ९० ॥
क्षितिप्रतिष्ठितपुरे, गोष्टीभक्तं विधापितम् । मित्रैर्द्वात्रिंशता माणिभद्राद्यैर्युवभिर्मुदा ॥ १ ॥ नीत्वा च रमणीयाख्ये, तदुद्याने व्यम्मुच्यत । तत्रैकं रक्षकं मुक्त्वा, परे स्नातुं नदीं ययुः ||२|| अत्रान्तरे च भिक्षार्थी, मुनिरेकः समागमत् । अपश्यच्च जगच्चित्तमोदकानिह मोदकान् || ३ || रक्षकः प्राह भगवन् !, नेतो दातुमहं क्षमः । यदेकत्रिंशता मित्रैरपरैरपि कारिताः ॥ ४ ॥ परद्रव्यमिदं तेन, कथमेको ददाम्यहम् । गतास्ते क्केति साधूक्ते, स प्राह स्नानहेतवे ॥ ५ ॥ अथ लिप्सावशः साधुस्तमिति स्तिमितो - गदत् । अहो मतिस्ते यत् पुण्यं परार्थेनापि नाजसि ॥ ६ ॥ किंच द्वात्रिंशता दत्तैस्तवैकोऽयं प्रयास्यति । अल्पव्ययेन तद्धर्म्मशील ! त्वं धर्ममर्जय ॥ ७ ॥ इत्थं पुनः पुनस्तेन, मणितेनोपरोधतः । प्रदत्ता मोदकास्तेन, मुनये स ततोऽब्रजत् ॥ ८ ॥ व्रजश्व माणिभद्राद्यैः, सम्मुखापतितैरयम् । दृष्टः पृष्टश्च भगवन्!, भवता लब्धमत्र किम् १ ॥९॥ किंचिदपि न तेनोक्ते, भयभ्रमितचेतसा । बलादालोकमानैस्तैः, पात्रे दृष्टास्तु मोदकाः ॥ १० ॥ पृष्टव रक्षको भीत्या, ग्राह दत्ता मया न हि । ततः सलोपः स्तेनोऽयं, वदद्भिर्विधृतो मुनिः॥ ११ ॥ उपकारणिकं नीते, बलादाकृष्य तैरयम् । कुविकल्पैरिवानन्यैरुपकर्म्मशरीरभृत्॥ १२॥ पृष्टः कारणिकैः सर्वे, समीचीनमुवाच सः । ऋजुकोऽयमिति ध्वात्वा, तैस्ते सम्बोधिताः परे ।। १३ ।। साध्वाभासः स च प्रोचे, मा कार्षीः पुनरीदृशम् । स्थातव्यं न च देशे चेत्युक्तो मुक्तश्च तैर्ययौ ॥१४॥ तथा पितृ ( पुत्रे )भ्यः स्वामिना दीयमानमध्यात् कुटुम्बिभिश्च क्षेत्र कर्म्मकरेभ्यो दीयमानमध्यात् हस्तिपिण्डमध्याच्च दीयमानं न ग्राह्यमिति १५ ॥
अथाध्यवपूरकः, स चात्माद्यर्थं मूलारम्भे गृही यावदर्थिकयतिपाषण्डिकार्थं तन्दुलान् निक्षिपति सोऽयमध्यवपूरकमध्यवपूरकाख्यो दोषो भण्यते १६ ॥ एतेषु च षोडशसु उद्गमदोषेषु आधाकर्म्म औद्देशिकात्रकं उद्दिष्टकृतकर्म्माख्यं मिश्रजातं अध्यवपूरकः
उद्गमदोषाः १६
॥ ९० ॥