________________
श्री
प्रव्रज्या०
श्रीप्रद्यु नीयवृत्ती
॥ ८९ ॥
॥ ३ ॥ स जगादादत्तदाना, इमे तस्याथ हेतवे । निःश्रेणिमधिरोहन्ती, तत्प्रिया पतिताऽवनौ ॥ ४ ॥ कुक्षिस्तस्या घरट्टस्य, कीलकेन विदारिता । पतिता प्रस्फुरद्गर्भा, सा पश्चत्वमवाप च ॥ ५ ॥ अन्यदा चाययौ साधुस्तेन पृष्टो जगाद च । आर्हतं वचनं ह्येतद्वाह्यं मालाहृतं न हि ||६|| धर्म्म च कथयित्वैष, मुनिना ग्राहितो व्रतम् । तन्मालापहृतं हेयमेव संयमिना सता ||७|| १३
अथाच्छेद्यम्, तच्चाच्छिद्य-उद्दालय परेभ्यः सकाशात् दात्रा बालकादिभ्यो हठाद् गृहीत्वा साधुभ्यो यद्दत्ते तदाच्छेद्यम् । गोपभृतक दासपुत्रवधूभार्यादीनां हि प्रभोराच्छेद्यं स्यात् तन्न ग्राह्यं यस्मादाच्छिन्नं गृह्यते स कदाचित्तथाविधगोपवत् कोपमपि कुर्यात्, तथाहि-- केनापीशेन कस्यापि, गोपस्य भृतिवासरे । तदीयदुग्धं कियदप्याच्छिद्यादायि साधवे ॥ ॥ साधुना तु गृहीतं तद्, गोपस्तु क्षीरभाजनम् । गृहीत्वा गृहमायासीदूनं दृष्टं स्वभार्यया ||२|| क्षीरन्यूनतया तस्मै, साऽऽक्रोशान् दातुमुद्यता । लग्नानि शिशुरूपाणि, मुक्तकण्ठं च रोदितुम् ॥ ३ ॥ कोपाटोपात्ततो गोपो, बुद्धि साधुवधेऽदधत् । इतश्चेतश्च बभ्राम कुर्वन् मुनिगवेषणम् ॥ ४ ॥ दृष्टश्च मुनिना ज्ञाततदाकृतेन भाषितः । तोषपोषकृते तस्य, सुधारसकिरा गिरा ॥ ५ ॥ तदा गृहेशनिर्बन्धात् त्वद्दुग्धं जगृहे मया । ततः प्रत्यर्पणायाहं, साम्प्रतं चलितोऽस्मि च ॥६॥ त्वद्गृहं तु न जानामि, तदिदं गृह्यतां पयः । ततो जुगोप गोपालः, कोपमहाय तं प्रति ॥ ७ ॥ ऊचेऽथ जीवितव्यं च पयश्च तव जायताम् । द्वितीयवेलं मा कार्षीः, वचनापीदमीदृशम् ॥ ८ ॥ इत्यनेकमहादोषपरिपोषनिबन्धनम् । मुमुक्षुभिः परित्याज्यमेवाच्छेद्याशनादिकम् ॥ ९ ॥ १४ ॥
अथानिसृष्टम् -- तच्च बहूनां स्वामिनां साधारणं यन्मोदकादि तदेकेन दीययानं न ग्राह्यं दोषप्रसंगाद्, अथोदाहरणम्-
उद्गमदोषाः १६
॥ ८९ ॥