SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीनीयवृत्ती 11 63 11 स्वजनवर्गाय तमुवाच च सादरम् ॥ ११ ॥ भक्षयेत स्वयं यूयं दद्यात च मुनिव्रजे । प्रतिपद्येति ते पार्क, विदधुर्मुदिताशयाः ||| १२ || शालिपाकः स वित्तोऽतः, पाके तेषां च संकथाः । शृण्वन्ति भिक्षवो भिक्षाकृते भ्राम्यन्त ईदृशीः ॥ १३ ॥ तत्रैको बालको वक्ति, त एते मुनयो ननु । शालिकूरः कृते येषां परिपक्तो गृहे गृहे ॥ १४ ॥ थेरो वदत्ययं लब्धोऽमीभिर्धिष्ण्ये ममापि हि । अन्यश्च भाषतेऽमीषां दास्याम्यहमपि स्फुटम् || १५ || अन्यश्च मातरं प्रोचे, मुनिभ्यो वितरौदनम् । अभाषतान्यः कोऽप्यत्र, प्रस्तावापतितं यदः || १६ || अभक्ते शालिभक्तं यद्, दृष्टान्तश्चात्र लौकिकः । यथा काऽपि वशा ब्रूते, मृत्युः पत्युर्ममाभवत् ॥१७॥ देवरस्य मदीयस्य, गृहिण्या अपि दैवतः । कालानुरूपमेतच्च, जातं कूरोऽपि तादृशम् ॥ १८ ॥ तथाऽन्यो मातरं वक्ति, देहि शाल्युदकं मम । आचाममपरोऽम्लं च, पर इत्यादि भाषितम् ।। १९ ।। बालानां मुनयः श्रुत्वा पृच्छंस्ते तत् किमीदृशम् । बालकैरार्जवात्तेषां कथितं च यथातथम् ।। २० ।। तञ्जनन्यादिकं पृष्टं वीक्षते च परस्परम् । मत्वेति मुनयस्त्वेषां गृहाणां परिहारतः || २१ || अपरापर गेहेषु, भिक्षाहेतोर्भ्रमन्ति च । अनिर्वाहे पुनर्यान्ति, ग्रामे काप्यदवीयसि ॥ २३ ॥ मत्वेति साधुभिस्त्याज्यमाधाकर्मिकमादरात् । विज्ञैर्विज्ञातसर्वज्ञवचनैर्मोक्षमिच्छुभिः ||२४|| किश्च दुर्भिक्षग्लानाद्यवस्थायामाधाकर्मापि दायकस्य ग्राहकस्य च हितमेव यदुक्तम् - " संथरणंमि असुद्धं दुहवि गिण्हंत दिंतयाणऽहियं । आउरदितेनं तं चैव हियं असंथरणे ॥ १ ॥” पञ्चमाङ्गेऽष्टमशतषष्ठोद्देश केऽप्युक्तम् - " समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाहेमाणस्स किं कज्जइ, गोयमा ! एगंतसो से निज्जरा कज्जह, नत्थि य से पावे कम्मे किज्जइ १ । समणोवासगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला भेमाणस्स किं कज्जह?, ४ आधा कर्मदोषः ॥ ८३ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy