________________
प्रव्रज्या
४ प्रव्रज्यास्वरूप आहार
श्रीप्रद्यु: म्नीयवृत्ती
दोषाः
॥८१ ॥
रात्रिभोजनविरतिः, कार्येति शेषः, उच्यते प्रव्रजितस्य हि चतुभंगकरोक्तस्यापि निशाभोजनस्य निषेधः, तद्यथा--"राओ गहियं राओ भुंजइ १ राओ गहियं दिवा भुंजइ २ दिवा गहियं राओ भुंजइ २ दिवा गहियं दिवा भुंजइ ४, रात्रौ गृहीतं रात्रौ भुनक्ति १ दिवा गृहीतं रात्रौ भुनक्ति २ इति द्वौ भङ्गको सुप्रतिपाद्यौ, रात्रौ गृहीतं दिवा भुनक्ति, अयं तु रात्रौ पिण्डग्रहणानधिकारात परिहार्यः, दिवा गृहीतं दिवा भुनक्तीत्यस्मिन्नाग्दिनगृहीते रात्रौ पर्युषिते द्वितीयदिनपरिभोगेऽयं भवति, सोऽपि रजनीभोजनेऽन्तर्भवति, साधूनां सन्निधिपरिहारात्, इति चतुर्भङ्गकप्रोक्ता निषेधा अपि निर्विवेकानां दुष्कराः, अन्यतीर्थि कैरप्युक्तं-नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर ! । तपस्विना विशेषेण, गृहिणाऽपि विवेकिना ॥ ॥ निर्ममत्वं स्वदेहेऽपि, आस्तां धनकनककलत्रपुत्रमित्रादिके, इदमपि निविवेकानां दुष्कर, 'पिण्डो उग्गम उप्पायणेसणाए सया सुद्धो 'पिण्डो' भिक्षारूपः उद्गमदोषउत्पादनादोपएषणादोषवर्जितो, ग्राह्य इति शेषः, एतावता द्विचत्वारिंशतो दोषान् सूचयति, ते चामीआहाकम्मु १ देसिय २ पूइयकम्मे ३ य मीसजाए४ य । ठवणा५ पाहुडियाए ६ पाओअर कीय८ पामिच्चे९॥१॥
परियहिए १० अभिहडे११ उन्भिन्ने१२ मालोहडे १३ य अच्छिज्जे १४ । अणिसह १५ ऽज्झोयरए १६ सोलस |पिण्डुग्गमे दोसा॥२॥ आधानं आधा-दातुः संकल्पस्तया कर्म-पाकादिक्रियेत्याधाकर्म, यद्वा आधाय-विकल्प्य कर्म निरुक्तवशात् यकारलोपे आधाकर्म, तद्योगाद्भक्ताद्यपि तथोच्यते, एवमन्यत्रापि१, उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निवृत्तं तत्प्रयोजनं वेत्यौहशिकं भक्तादि, दोषदोषवतोरभेदोपचारात, एवमन्यत्रापि २, शुद्धस्यापि अशुद्धभक्तादिमीलनात् पूते-अपवित्रस्य कर्म-करणं इति पूर्तिकर्म३, मिश्रण-गृहिसाध्वादिप्रणिधानलक्षणेन भावेन जात-पाकादिभावमुपगतं मिश्रजातं ४, स्थाप्यते-साधु
ॐAISA