SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ૮૨ चांद्रकासमतेः अप्रस्तुतप्रशंसास्यात्सायप्रस्तुताश्रया ॥ ए कः कृतीशकुंतेषुयोन्यंशक्रान्नयाचते ॥ ६५ ॥ यत्राप्रस्तुतवृत्तांतवर्णनं प्रस्तुतवृत्तांतावगतिपर्यवसायि तंत्रा प्रस्तुतप्रशंसालंकारः । अप्रस्तुतवृत्तांतवर्णनेन प्रस्तुतावगति श्वप्रस्तुताप्रस्तुतयोः संबंधेसतिभवति । संबंधश्वसारूप्यं सामा न्यविशेषभावः कार्यकारणभावोवासंभवति । तत्रसामान्यवि शेषभावेसामान्याद्विशेषस्या विशेषाद्वासामान्य स्यावगतौद्वैवि ध्यं । कार्यकारणभावेपि कार्यात्कारणस्यकारणाद्वाकार्यस्याव गतौद्वैविध्यं । सारूप्यात्तएको भेदइत्यस्याः पंचप्रकाराः । यदा 'कार्येनिमित्तेसामान्येविशेषेप्रस्तुते सति ॥ तदन्यस्यवचस्तु ल्ये तुल्यस्येतिच पंचधेति ॥ तत्रसारूप्यनिबंधनाऽप्रस्तुतप्रशं सोदाहरणंएकः कृतीति। अत्राप्रस्तुतचातकस्यप्रशंसाप्रशंसनीय त्वेनप्रस्तुते तत्स रूपे क्षुद्रेभ्योयाचनान्निवृत्तेमानिनिपर्यवस्यति। अप्रस्तुतेति । साअप्रस्तुतप्रशंसाप्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येनतात्पर्यविष योयस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसे सर्थः । एकइति । कृती कुशलः शकुंतेषुपक्षिषुमध्ये यश्चातकः शक्रादिं द्रादन्यंनयाचतइयर्थः । कार्येइति । कार्येप्रस्तुतेस तितदन्यस्यकारणस्यवचः प्रतिपादनं निमित्तेकारणेमस्तुते सतितदन्यस्य कार्यस्य । एवंसा मान्यमस्तुते स तितदन्यस्यविशेषस्य विशेषेप्रस्तुते सतितदन्यस्यसामान्यस्यतुल्ये प्रस्तुते तदन्यस्यतत्सदृशस्येत्यर्थः । अन्यशब्दस्य मतिसंबंधिपरत्वात् । तत्सरूपेतत्सदृशे ॥ यथावा ॥ आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितोमृगप तेः पदवींयदिश्वा ॥ मत्तेभकुंभतटपाटनलंपटस्यनादं करिष्यति कथंहरिणाधिपस्य ॥ अत्रशुनकस्यनिंदानिंदनीयत्वेन प्रस्तुतेत सरूपे कृत्रिमवेषव्यवहारादिमात्रेणविद्वत्ताभिनयवतिवैधेये पर्यवस्यति । यथावा ॥ अंतश्छिद्राणिभूयांसिकंटका बहवो बहिः ॥ कथंकमलनालस्यमाभूवन्भंगुरागुणाः ॥ अत्रकमल नालवृत्तान्त कीर्तनन्तत्सरूपे बहिः खलेषुजाग्रत्सुभ्रातृपुत्रादि भिरंतः कलहं कुर्वाणेपुरुषेपर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्र
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy