________________
चंद्रिकासमेतः
मेणोदाहरणानि । तत्रसर्वदो माधवइतिस्तोतव्यत्वेनप्रकृतयो हरिहरयोः कीर्तनंप्रकृतं श्लेषः । अजंकमलमन्नश्चंद्रस्तयोरुप मानमात्रत्वेनाप्रकृतयोः । कीर्तनमित्यप्रकृतश्लेषः । वाहिनीप तिः सेनापतिः समुद्रश्च ॥ तत्रसमितौशस्त्र प्रहारोत्पतद्रुधिरस्य सेनापतेरेववर्णनं प्रकृतमितिप्रकृताप्रकृतश्लेषः । यथावा ॥ त्रा तःकाकोदरोयेनद्रोग्धापिकरुणात्मना ॥ पूतनामारणख्यातः समस्तुशरणंप्रभुः ॥ नीताना मा कुलीभावंलुब्धैर्भूरिशिलीमु खैः॥ सदृशेवन वृद्धानांकमलानांत्वदीक्षणे ॥ असावुदयमारू ढः कांतिमानुरक्तमंडलः ॥ राजाहरतिलोकस्य हृदयंमृदुलैः करैः॥ तत्राद्येस्तोतव्यत्वेन प्रकृतयोः रामकृष्णयोः श्लेषः द्विती येउपमानत्वेनाप्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरतिलोकस्येतिचंद्रवर्णन प्रस्तावे प्रकृतस्य प्रत्यग्रोदितचंद्रस्या प्रकृतस्यनवाभिषिक्तस्यनृपतेःश्लेषः।
श्लेषंलक्षयति । नानार्थेति । नानार्थस्यशब्दस्य संश्रयोयोजनं श्लेषइतिलक्षणं । वर्ण्यसा दिविभागः । वर्ण्यचावर्ण्यचवर्ण्यवर्ण्योभयंचएतत्रयाश्रितस्तद्विषयइत्यर्थः । सर्वेति । सर्वदः समाधवः पायात् यः अगंगोवर्धन पर्वतंगां पृथ्वींचवराहावतारेधृतवानितिविष्णुप क्षे। हरपक्षेतु सउमाधवः सर्वदापायात् । योगंगांधृतवानित्यर्थः । हरिणेनमृगेणांकरूपतया आहिताकृतासक्तिः संगोयस्येतिचंद्रपक्षे। हरिणा सूर्येणेतिकमलपक्षे उच्चरच्छखपातैरुद्ग च्छत्कीलालंरुधिरंयस्य सवाहिनीपतिः सेनापतिः । तथावाहिनीनां नदीनां पतिःसमुद्र श्वेतिपक्षेकीलालंजलं । समितीसंग्रामे । त्रातइति । येनकरुणायुक्तांतः करणेनद्रोहकर्ता पिअदरोभयशून्यः काकस्त्रातो रक्षितो नतुहतः । सपवित्रनामा । रणेख्यातोविभूरामोमे शरणमस्त्वित्यर्थः । कृष्णपक्षेतुका कोदरः कालिय सर्पः पूतनायाराक्षस्यामारणेनख्यात इतिशेषः । नीतानामिति । दयितांप्रतिनायकोक्तिः । तवईक्षणेनेत्रेकमलानां पद्मानां हरिणानांचसदृशेस्तइत्यन्वयः । कीदृशानांवनेजले अरण्येचदृद्धिंप्राप्तानाम् । तथालु ब्धैर्लोभशीलैर्भूरिभिःशिलीमुखैर्भ्रमरैराकुलीभावव्याप्ततांनीतानामितिपद्मपक्षे । हरि णपक्षेतु लुब्धैः व्याधैः कर्तृभिर्भूरिशिलीमुखैर्बाणैः करणभूतैराकुलीभावंचपलतांनीता नामित्यर्थः । मृगमभेदेकमलइतिविश्वः । असाविति । उदयं शैलमभिहार्द्धच रक्तरक्तव र्णमनुरक्तंच मंडलंर्विबंदेशश्च राजाचंद्रोनृपश्च मृदुलैरभिनवैरल्पैश्च करैः किरणैर्यावध नैश्च । प्रसग्रोदितेतिअभिनवोदितेत्यर्थः
—
७९