________________
चंद्रिकासमेतः
निःशेषच्युतेत्यादिध्वनावतिव्याप्तिरित्यत आह अतएवेति । वाच्योपस्कारकत्वादेवे सर्थः। परिकरत्वादंगत्वात् । तथाचपरिकरपदमहिम्न प्रकृतार्थोपपादकत्वस्यव्यंग्य विशे षणस्यलाभान्नातिव्याप्तिरितिभावः । अपुष्टार्थेतिभावप्रधानं । उक्तत्वादिति । अ osपुष्टः कष्टो व्याहतपुनरुक्तदुःक्रमग्राम्याइयादिनाऽलंकारिकैरुक्तखादिसर्थः । कथं तर्हितैरेवास्यालंकारत्वेनकथनमत आह एकनिष्ठेति । तादृशेतिसाभिप्रायेत्यर्थः । दो षाभावेनेति । अपुष्टार्थत्वस्य दोषत्वाभावेनेयर्थः । उद्भटालंकारसंपत्यास हृदयैव मुख्यरूप दूषकताबीजाभावादितिभावः विच्छित्तिचमत्कृतिः परिकरत्वोपपत्तेः परिकरस्यालं कारखोपपत्तेः । तत्रदोषः स्यात्प्रसत्याविच्छित्तिविशेषस्यतदभावयुक्तत्वा संभवात्तत्म योजकमलंकारत्वमावश्यकमितिभावः
७७
यथा॥अतियजेतनिजांयदिदेवतामुभयतश्च्यवते जुषतेप्य ॥ क्षितिभृतैवस दैवतकावयंवनवतानवताकि महिदुहा ॥ अत्रहि पुरुहूत पूजोद्युक्तान्नंदादीन्प्रतिभगवतः कृष्णस्य वाक्येगोवर्ध नगिरिरेवचास्माकंरक्षकत्वेन दैवतमितिसएव पूजनीयोनत्व रक्षकः पुरुहूतइत्येवंपरे वनवतेतिगोवर्द्धन गिरेर्विशेषणंकानन वत्त्वान्निर्झरादिमत्त्वाञ्चपुष्पमूलफलतृणादिभिरारण्यकाना मस्माकमस्मद्धनानांगवांचायमेवरक्षकइत्यभिप्रायगर्भं । ए वमत्रसाभिप्रायैकविशेषणविन्यासस्याऽपिविच्छित्तिविशेषव शादस्यसाभिप्रायस्याऽलंकारत्वसिद्धावन्यत्रापि सुधांशुकलि तोत्तंस इत्यादौ तस्यात्मलाभोननिवार्यते । अपिच एकपदा र्थहेतुकं काव्यलिंगमलंकारइतिसर्वसंमतं तद्वदेकस्यापिविशे पणस्यसाभिप्रायस्यालंकारत्वंयुक्तमेव ॥ ६१ ॥
यमकस्थलेउदाहरति। यथेति । निजदेिवतामतिक्रम्ययदियजेत अर्थाद्देवतांतरं पूजयेत् तदोभयतोलाकद्वय च्यवते भ्रश्यत्य घंपापमपिजुषते सेवतेप्राप्नोतीतियावत् । कानिजा देवतातत्राह । वयंवनवताप्रशस्तव नयुक्तेन क्षितिभृतागोवर्द्धन गिरिणैव सदैवतकादैवत सहिताः । सएवास्माकंदैवतमित्यर्थः । अनवताऽरक्षकेण । अहिदुहाइद्रेण । किंप्रयो जनमितिशेषः । अहिर्वृत्रासुरः। अहिर्वृत्रासु रेसर्पेइ तिविश्वः । नन्वेवंसतितत्रैवालंकार तास्यान्नतुसुधांशुकलितोत्तंस इत्यादावत आह एवमिति । विच्छित्तिविशेषेतिदोषाभा वप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपितादृशविच्छित्तिविशेषेमानाभावः ।