________________
चंद्रिकासमेतः
मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्तशब्दस्यारुणकामुक साधारण्याचुंबतीत्यस्यप्रस्तुतार्थसंबन्धमात्रपरस्यशक्यार्थी तरसाधारण्याच्चन्द्रमःशब्दगत पुल्लिंगेन ऐंद्रीशब्दगत स्त्रीलिंगे नतत्प्रतिपाद्येद्रसंबंधित्वेन चोपस्कृतादप्रस्तुत परवनितासक्त पुरुषवृत्तांतःप्रतीयते । यथवा ॥ व्यावलगत्कुचभारमाकु लकचं व्यालोलहाराव लिखत्कुंडलशोभिगंड युगलं प्रस्वेदिव त्रांबुजं ॥ शश्वदत्तकर प्रहारमधिकश्वा संरसादेतयायस्मात्कं दुकसादरंसुभगया संसेव्यसेतत्कृती ॥ अत्रकंदुकवृत्तांतवर्ण्य मानेव्यावलगत्कुचभारमित्यादिक्रियाविशेषणसाम्याद्विपरी तरतासक्तनायिकावृत्तांतःप्रतीयते । पूर्वत्रविशेषणानिश्लिष्टा नीहासाधारणानीतिभेदः । सारूप्यादपिसमासोक्तिर्द्दश्यते।समासोक्तिलक्षयति ॥ समासोक्तिरिति । प्रस्तुतेवर्ण्यमाने अप्रस्तुतस्याप्रस्तुतवृत्तां तस्यपरिस्फूर्त्तिश्चेत्तदासमासोक्तिरित्यन्वयः । अयमिति । इंद्रस्येय मैंद्रीमाची मुखमा दिभागोवदनंच रक्तोरक्तवर्णोऽनुरक्तश्च चुंबनं संबंधोवक्त्रसंयोग विशेषश्च यथाश्रु तलक्षणस्यवक्ष्यमाणे । 'असावुदयमारूढः कांतिमान् रक्तमंडलः ॥ राजाहरति सर्वस्य हृदयंमृदुलैः करैः' इत्यादिप्रकृतामकृत श्लेषेऽतिव्याप्तेराह विशेषणसाम्यबलादिति । विशेषणमात्र साम्यबलादियर्थः । एवंच विशेषणमात्र साम्यगम्याप्रस्तुतवृत्तांतलक्ष णंबोध्यं । उदाहृतश्लेषेचाप्रकृतनृपवृत्तांतस्यविशेष्यवाचिनाश्लिष्टेनराजपदेनाप्यवग मान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थदर्शयति । समासेनेति । वचनात्प्र तिपादनात् । लक्ष्येलक्षणं संगमयति । अत्रेति । प्रारंभ आदिभागः । साधारण्या चिल्ल ष्टत्वात् । यद्यपिचुंबतीसत्रन श्लेषस्तथाप्यर्थद्वयबोधकत्वमात्रेणतस्यसाधारण्योक्तिः । उपस्कृतादितिसाधारण्यादिसस्यविशेषणं । तत्र चंद्रमः शब्दगतेन पुल्लिंगेननायकत्वाभि व्यक्त्याउपस्कारः । ऐंद्री तिस्वरूप परं तद्गतेनस्त्रीलिंगेनतदर्थस्य नायिकालाभिव्यक्तया ऐंद्रीशब्दप्रतिपाद्येनेंद्र संबंधित्वेन च परकीयत्वाभिव्यक्त्येतिबोध्यं । वृत्तांतोव्यवहारोमु खचुंबनरूपः । व्यावल्गदिति । नायिकानुरक्तस्य कस्यचित्क्रीडालंबन कंदुकं प्रत्युक्ति रियम् । हेकंदुकसुभगया सुंदर्या एतयानायिकयारसात्प्रीतिविशेषात्सादरमादरसहितं यथास्यात्तथायस्मासंसेव्यसेतत्तस्मात्कृतीधन्योसत्यिन्वयः । कथमित्याकांक्षायां संसे वनक्रियांविशिनष्टि व्यावल्गदियादिना । व्यावल्गद्विशेषत आसमंताञ्चलन्कुचभा रोयत्र तथा आकुलाः क्रीडा वेशेनेत स्ततः पर्यस्ताः कचाः केशा यत्र एवं व्यालोलादोला
६९