________________
कुवलयानंदः कल्पतरोरेषविशेषःकरस्यतेवीर ॥ भूषयतिकर्णमेकापरस्तुक गतिरस्कुरुते॥तन्यूनत्वपर्यवसायीयथारक्तस्त्वंनवपल्लवैरह मपिश्लाघ्यैःप्रियायागुणैस्त्वामायांतिशिलीमुखाःस्मरधनुर्मु तास्तथामामपि ॥ कांतापादतलाहतिस्तवमुदेतहन्ममाप्या वयोःसर्वतुल्यमशोककेवलमहंधात्रासशोकःकृतः॥ अनुभय पर्यवसायीयथा । दृढतरनिबद्धमुष्टेःकोशनिषण्णस्यसहजम लिनस्य ॥ कृपणस्यरूपाणस्यचकेवलमाकारतोभेदः॥५६॥ व्यतिरेकंलक्षयति ॥ व्यतिरेकइति । विशेषोवैलक्षण्यं । उपमेयस्याधिक्यमुत्कर्षः। पल्लवतइति । पंचम्यर्थतसिल । कल्पतरोःपल्लवतःपल्लवादेषवक्ष्यमाणस्तेतवकरस्यविशे पइतिसंबंधः। एकापल्लवः परोहस्तः । कर्णराधेयंतिरस्कुरुते दानातिशयेनैतिभाव: अत्रोपमेयस्यकरस्योत्कर्षः । पूर्वोदाहरणेउन्नतखेनौपम्यंशाब्दमिह तुरक्तवत्कोमलखा दिप्रयुक्तद्गम्यमितिभेदः । तम्यूनखेति । उपमेयन्यूनलेयर्थः । रक्तस्वमिति । अ शोकक्षपतिविरहिणकस्यचिक्तिः । हेअशोक आवयोःसर्वतुल्यंसमानम् । अहं केवलंधात्राविधात्रासशोकःशोकसहितःकृतः। खंतु शोकरहितइयशोकपदश्लेषादवग म्यते । किंतत्सर्वसमानंतत्राह रक्तइसादि । खनूतनैःपल्लवैरक्तोरक्तवर्णः अहमपि प्रियायाःश्लाघनीयैर्गुणैःसौंदर्यादिभीरक्तोऽनुरक्तः अर्थात्प्रियायाम् । हेसखेखांप्रति शिलीमुखाभ्रमराआयांतिमांप्रसपिस्मरेणधनुषामुक्ताःप्रेरिता शिलीमुखाबाणाआयां ति । एवंकांताया पादतलस्याघातोयथातवमुदेसंतोषायतद्वत्तथाममापिसंतोषायेसर्थः । कामिनीपादघातेनाशोकस्यपुष्पोद्गमइतिकविप्रसिद्धिः । अत्रोपमेयस्यसशोकलेना पकर्षः । अनुभयपर्यवसायीउपमेयोत्कर्षापकर्षान्यतरपर्यवसानरहितः। दृढतरेति।क पणस्यकृपाणस्यखड्गस्यचाकारतोदीर्घावर्णादाकृतेश्चकेवलंभेदोवैलक्षण्यं । प्रकारांत रेणतुसाम्यमेवेसर्थः। कथंतत्राह दृढतरेसादि । दृढतरंनिबद्धोमुष्टियनेति । कृपणपक्षेध नव्ययवैमुख्येनमुष्टिमोचनाभावात् । खड्गपक्षेतुदृढतरंनिबद्धःसंबद्धोमुष्टिर्मुष्टिग्राह्यभा गोयस्येसर्थः। कोशोभांडारगृहंतत्रनिषण्णउपविष्टः कृपणः कोशेपिधानकेनिषण्णःस्थि तइति खड्गपक्षेसहजमलिन स्वभावमलिन मलिनवेषत्वात्कृपणः खड्गस्तुकृष्णवर्ण खादिति।एवंचकिंचिद्धर्मप्रयुक्तसाम्यवत्तयाप्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यंग्य तिरेक शरीरं ।वैलक्षण्यंतुकचिदुपमेयस्योत्कर्षेकचिच्चतदपकर्षेपर्यवसन्नं कचितुतदन्य तरपर्यवसानविरहे पिस्ववैचित्र्यविश्रांतमात्रमितिबोध्यं । एतेनचरमभेदद्वयतदुदाहरण दूषणंकस्यचिदापातरमणीयमिवभासमानंप्रयुक्तंवेदितव्यं । असंतासारतयातनानुवाद महतीत्युपरम्यते ॥ ५६ ॥ इसलंकारचंद्रिकायांव्यतिरेकप्रकरणम् ॥