________________
चंद्रिकासमेतः
६३
ष्माकंमुदेऽस्त्वितिसंबंधः । कीदृशः विधेर्ब्रह्मणोविष्टर आसनंतद्रूपस्य पद्मस्थनालदंडइ सर्थः । विशिष्टरूपकेति ऊर्ध्वोत्क्षिप्तत्वविशिष्टांघ्रिदंड विधिविष्टर पद्म संबंधित्वविशिष्ट नालदंड संबंधिरूपकेयर्थः विशेषणेति । ऊर्ध्वोत्क्षिप्तत्वरूपोपमेयविशेषणविधिविष्टरप संबंधित्वरूपोपमानविशेषणयोरित्यर्थः । एवकार सूचितबिंबप्रतिबिंबभावव्यतिरेकं स्फुटयति । यद्दातुरिति । अभावादिति । सादृश्याभावादितिभावः । रूपकविशेषेऽ तिव्याप्तिमा शंक्य परिहरति यत्रत्वियादिना । यत्रत्वियस्यइतिसावयवरूपकोदाहरणेइ यग्रेतनेनान्वयः । विषयविषयिविशेषणानामारोपविषयारोप्यमाणसंबंधिनांविशेषणा नाम् । ज्योत्स्नेति । इयंरात्रिरेवकापालिकी योगिनीद्वीपा द्वीपांतरं भ्रमतीयन्वयः। एतत्प्र धानरूपकम् । एतदंगभूतान्यपराणिविशेषणैः प्रतिपाद्यंते । यथा ज्योत्स्नारूपेण भस्मना छुरणमंगलेपस्तेनधवलातारकारूपाण्यस्थीनिविभ्रती अंतर्धानस्य व्यसने कौतुकेरसिका चंद्ररूपेमुद्राकपाले न्यस्तं लांछनस्यछलेन सिद्धां जनस्यपरिमलं चूर्णदधती धारयंती । दी क्षाकालगृहीतोपकरणेषुमुद्रोपपदनाम्ना पाखंडानांव्यवहारइतिचंडीदासः । मुद्रापरिम लशब्दौ प्रशंसार्थावियन्ये । मुद्राचिन्हं तद्रूपेकपालेइतिवार्थः । विषयविषयिणोरात्रि कापालिक्योः । तद्विशेषणानां तत्संबंधिनांज्योत्स्नाभस्मादीनां । यथाश्रुते रात्रिकापा लिकीतिसमासस्योत्तरपदार्थप्रधानतयाज्योत्स्नादीनांरात्रिविशेषणत्वाभावादसंगतेः प्रत्येकमेवेति । शुद्धस्वरूपेणैवेत्यर्थः । नखिति । उक्तयुक्त्या विशेषणत्वाभावादितिभावः । वस्तुतोभस्मादेः कापालिकींप्रसपिनविशेषणत्वमपितुतत्कोटिनिविष्टत्वमेवेसपिबोध्यं । वाक्यार्थशब्दस्यबिंबप्रतिबिंबभावापन्नवस्तुविशिष्टार्थ परत्वमंगी कृत्यराजसेवेत्युदाहर णेवाक्यार्थवृत्तिनिदर्शनात्वमुक्तमुपसंहरति । तस्मादिति । उक्तलक्षणस्यव्यवस्थित त्वादित्यर्थः । मतांतरेखिति । सदृशयोर्वाक्यार्थयोरैक्या रोपइतियथाश्रुतलक्षणांगीक र्तृमतेइत्यर्थः । इहराजसेवेत्युदाहरणे । पदार्थवृत्त्यैवेति । उपमाकल्पक एकपदार्थेअ परपदार्थ तद्धर्मान्यतरारोपइतितल्लक्षणस्यतदभिमतत्वादितिभावः ॥ ५३ ॥
अपरांबोधनं प्राहुः क्रिययाऽसत्सदर्थयोः ॥ नश्येद्राजविरो धीतिक्षीणं चंद्रोदयेतमः ॥ ५४ ॥ उदयन्नेव सवितापद्मेष्व पयतिश्रियं॥विभावयन्समृद्धीनां फलं सुहृदनुग्रहः ॥ ५५ ॥ कस्यचित्किंचित्क्रियाविशिष्टस्यस्वक्रिययापरान्प्रत्यसतः सतो वार्थस्य बोधनंयन्निबद्ध्यते तद् परानिदर्शनामाहुः । असदर्थबो धने उत्तरार्धमुदाहरणम् । तत्रनश्यदितिबोधयदितिवक्तव्येबो धयदित्यस्यगम्यमानत्वादप्रयोगः । ततश्वराज्ञा चंद्रेणसहवि