________________
कुवलयानंदः
निदर्शनायारूपकाद्भदेः। रूपकेह्यविशिष्टयोरेवमुखचंद्रादिकयो रैक्यारोपः। ' अघि दं डोहरे रूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ॥ विधिविष्ट पद्मस्यनालदंडोमुदेस्तुनः' इतिविशिष्टरूपकोदाहरणेपिनबिं बप्रतिबिंब भावापन्नवस्तुविशिष्टरूपता। विधिविष्टरकमलश्लि ष्टत्वरूपसाधारणधर्मवत्ता संपादानार्थमेवताद्विशेषणोपादाना त् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषुदातृपूर्णेद्वादीना
६२
मानंदकरत्वादिनेवात्रविशेषणयोबिंबप्रतिबिंब भावाभावात् । यत्रतुविषयिविशेषणानांपरस्परसादृश्येनबिंबप्रतिबिंब भावो स्ति'ज्योत्स्नाभस्मच्छ्ररणधवलाविभ्रतीतारकास्थीन्यंतर्धान व्यसनरसिकारात्रिकापालिकीयं ॥ द्वीपाद्वीपंभ्रमतिदधतीचंद्र मुद्राकपा लेन्यस्तं सिद्धांजन परिमलंलांछन स्यच्छलेन' । इतिसा वयवरूपकोदाहरणेतत्रापिविषयविषयिणोस्तद्विशेषणानांच प्रत्येकमेवैक्यारोपोनतुज्योत्स्नादिविशिष्टरात्रिरूपविषयस्यभ स्मादिविशिष्टकापालिकीरूपविषयिणश्वविशिष्टरूपेणैक्यारो पोस्तीति । तस्माद्राजसेवामनुष्याणामित्यादावपिवाक्यार्थ वृत्तिनिदर्शनैवयुक्ता । मतांतरेत्विह पदार्थवृत्त्यैवनिदर्शनया भाव्यमिति ॥ ५३ ॥
नन्वियंव्यवस्थामूलविरुद्धेयाशंक्याह । वाक्यार्थयोरिति । ननुवाक्यार्थश ब्दस्यावांतरवाक्यार्थसाधारणानेक पदार्थपरत्वेनैवोक्तोदाहण संग्रहसंभवादेवंविधगुरुत रार्थपरत्वंनयुक्तमित्यत आह । एवंचेति । एवंविधार्थविवक्षणेचेसर्थः। अवलेहनंजिव्हया घट्टनं । पंचाननः सिंहस्तस्य परिष्वंग आलिंगनम् । व्याली भुजंगी अशक्यत्तं बलवदनिष्ट जनकत्वंचसाधारणोधर्मः । प्रस्तुतवृत्तांतोराजसेवा । निदर्शनायास्तल्लणस्यनक्षतिर्ना व्याप्तिः । तयोःप्रस्तुताप्रस्तुतवृत्तांतयोः । असिधारादिभिः समं राज्ञोबिंबप्रतिबिंबभा वात्तद्विशिष्टयोश्चैक्यारोपादितिभावः । एवं तर्हि सदृशयोरैक्या रोपइत्येव लक्षणमस्त्विया शंक्याह। अतएवेति । एतादृश विशेषणविवक्षणादे वेसर्थः। भेदो व्यावृत्तिः। तथाचतदभा वेरूपके तिप्रसंगःस्यादितिभावः । कथमनेनतद्वारणंतत्राह । रूपकेहीति । अविशिष्टयो बिंबप्रतिबिंबभावापन्नवस्त्वविशिष्टयोः। विंबप्रतिबिंबभावापन्ने सस्यव्यावृत्तिदर्शयति । अंध्रिदंडइत्यादि । बलैर्देयविशेषस्य निग्रहे बंधने कर्त्तव्ये ऊर्ध्वमुत्क्षिप्तोहरेरंघ्रिदं डोवोयु